SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ निर्माय चैत्यपूजां च साधुपार्श्वमुपेत्य च । जिनधर्मः परिव्रज्यामुपादत्त यथाविधि ॥ ६२॥ निर्गत्य नगराच्छैलशृङ्गं समधिरुह्य च । संन्यस्य पक्षं पूर्वसां कायोत्सर्ग व्यधत्त सः॥ ६३ ॥ अपरास्वपि दिक्ष्वेवं कायोत्सर्ग स निर्ममे । त्रोटिभिस्खोव्यमानोऽपि गृध्रकङ्कादिभिः खगैः॥६४॥ सहमानो व्यथामेवं नमस्कारपरायणः। विपद्य कल्पे सौधर्मे स इन्द्रः समजायत ॥६५॥ मृत्वा त्रिदण्डिकः सोऽपि ह्याभियोगेन कर्मणा । शक्रस्य वाहनमभूदरावण इति द्विपः॥६६॥ सोऽपि पूर्णैरावणायुश्युत्वा जीवस्त्रिदण्डिनः । भवे भ्रान्त्वाऽसिताक्षाख्यो बभूव किल यक्षराट् ॥६७॥ ___ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । कुरुजाङ्गलदेशेऽभूनगरं हस्तिनापुरम् ॥ ६८॥ तत्राश्वसेनोऽश्वसेनाच्छादितावनिमण्डलः । मण्डेलाग्रजितारातिमण्डलोऽभून्महीपतिः॥ ६९॥ तसिंश्च गुणरत्नानां रोहणाचलसनिमे । दुग्धे जलकृमिरिव न दोषकणिकाऽप्यभूत ॥ ७० ॥ अस्याहं तृणवदिति सौभाग्यस्याभिकाङ्क्षया । असिधाराव्रतं कर्तुमिव श्रीस्तदसौ स्थिता ॥ ७१ ॥ आगतेष्वार्थषु दधौ स हर्षमतिशायिनम् । व्यपीदच्च बँदित्सानुमानेन स्तोकयाचिषु ॥७२॥ अभूत् तस्य महादेवी सहदेवीति नामतः । कापि देवीव रूपेण महीतलमुपागता ॥ ७३ ॥ चिरं शक्रश्रियं भुक्त्वा कल्पात् पूर्णायुरादिमात् । स जीवो जिनधर्मस्य तस्याः कुक्षाववातरत् ॥७४॥ १ अनशनं कृत्वा। २ पार्श्वभागम् । ३ चञ्चभिः। ४ पञ्चपरमेष्ठिनमस्कारगणनापरायणः। सोऽथ पू' का०॥ शेऽस्ति न का०॥ ५ मण्डलाग्रेण खङ्गेन जितं शत्रुमण्डलं येन सः। °णाद्रौ कदाचन दु संबृ०॥ ६ तस्य खङ्गे । ७ दातुमिच्छाया अनुमानेनाल्पार्थिषु । Jain Education Intern For Private & Personal use only (ollwww.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy