SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । ॥४३७॥ मुखे प्रविशतः स्वस्मिन् सहदेव्यपि तत्क्षणम् । कुञ्जरादीन् महास्वमाँश्चतुर्दश ददर्श सा ।। ७५।। समयेऽसूत सा सूनुं सर्वलक्षणलक्षितम् । अद्वैतरूपविभवं जात्यजाम्बूनदद्युतिम् ॥ ७६ ॥ महीयसाऽथोत्सवेन जगदानन्ददायिना । सनत्कुमार इत्याख्यां चके तस्य महीपतिः॥ ७७॥ कनकच्छेदगौराङ्गो बालो बाल इवोडुपः। प्रीणन् नेत्राणि लोकानां स क्रमेण व्यवर्धत ॥ ७८ ॥ अङ्कादके नरेन्द्राणां संचरन् स व्यराजत । अरविन्दादरविन्दे सितच्छद इवोच्चकैः ॥ ७९ ॥ रूपेणाप्रतिरूपेण स बालोऽपि मृगीदृशाम् । जहार दृष्टमात्रोऽपि नेत्राणि च मनांसि च ॥८॥ साङ्गानि शब्दशास्त्राणि समस्तज्ञानमातृकाः । पपौ गुरुमुखोद्गीर्णान्येष गण्डूषलीलया ॥८१॥ राज्यश्रीभुवनस्तम्भान् स्वदोःस्तम्भानिवापरान् । स आददे शस्त्रशास्त्राण्यर्थशास्त्राणि चाभितः॥ ८२॥ अन्या अपि कलाः सर्वाः कलयामास लीलया। क्रमेण वर्धमानः स कलानिधिरिवामलः ॥ ८३॥ स साधैंकचत्वारिंशद्धनुरुन्नतविग्रहः। मर्त्यलोकादिव दिवं शैशवात् प्राप यौवनम् ॥ ८४ ॥ तस्याभूत् परमं मित्रं कालिन्दीसूरनन्दनः। महेन्द्रसिंह इत्याख्या ख्यातः प्रख्यातविक्रमः॥ ८५॥ प्राप्ते वसन्ते सोऽन्येयुः कालिन्दीसूनुना समम् । मकरन्दाख्यमुद्यानं कौतुकात् क्रीडितुं ययौ ॥८६॥ क्रीडाभिस्तत्र चित्राभिश्चिक्रीड सुहृदा समम् । सनत्कुमारो गीर्वाणकुमार इव नन्दने ॥ ८७॥ ॥४३७॥ | जाम्बूनदम् स्वर्णम् । २ चन्द्रः। ३ हंसः। ४ गुरुमुखान्निर्गतानि । * मुद्रितादर्श 'महेन्द्रसूरः' इति नामोपन्यस्तम्, परं प्रस्तुतवर्णने सर्वत्र 'महेन्द्रसिंह' इति उपलभ्यते, तेनानापि तदेवास्माभियंस्तम् । ५ देवकुमारः। Jain Education Intel For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy