SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चतुर्दश खमाः । नृदेवं देववन्नत्वा, पञ्चाङ्गस्पृष्टभूतलः । निषसाद यथास्थानं, सुमित्रविजयस्ततः॥७२॥ क्षणं स्थित्वा पुनर्नत्वा, भक्तितो वसुधापतिम् । एवं विज्ञपयामास, कुमारो रचिताञ्जलिः ॥ ७३ ।। युष्मद्वध्वा वैजयन्त्या, प्रहरेऽद्य निशोऽन्तिमे । निरीक्षाश्चक्रिरे स्वप्नेऽमी मुखाब्जप्रवेशिनः ॥ ७४॥ तत्राऽऽदौ गज ऊर्जस्वी, गर्जिनिर्जितदिग्गजः । नदन्नुत्तुङ्गककुदः, केकुमान् विशदाकृतिः ॥७५॥ उत्केसरततिात्ताननः पञ्चाननोऽपि च । क्रियमाणाभिषेका श्रीहस्तिभ्यां पार्श्वयोर्द्वयोः ॥ ७६ ॥ पञ्चवर्ण च सुमनोदामैन्द्रमिव कार्मुकम् । सुधाकुण्डमिवाऽऽपूर्ण, शशी सम्पूर्णमण्डलः ॥ ७७॥ विश्वस्याऽप्याहृत इव, प्रतापस्तपनस्ततः । दिव्यरत्नमयः प्रेङ्खत्पताकश्च महाध्वजः॥७८॥ पूर्णकुम्भो नवश्वेताम्भोरुहच्छादिताननः । सहस्राक्षमिव स्मेरैः, पौः पद्मसरोऽपि च ॥ ७९ ॥ आपिप्लावैयिषुरिव, धामप्यूमिभिरम्बुधिः। सामानिकविमानाभ, विमानं च महर्द्धिकम् ॥८॥ सारं रत्नाचलस्येव, रत्नपुञ्जः स्फुरत्प्रभः । धूमध्वजश्च निधूमः, शिखापल्लविताम्बरः ॥ ८१॥ एते ददृशिरे स्वमाः, फलमेषां तु तत्त्वतः । देव एव हि जानाति, फलभाग् देव एव च ।। ८२ ॥ राजाऽप्युवाचाऽमी स्वमा, देव्या विजययाऽपि हि । अद्यैव यामे यामिन्यास्तुर्ये ददृशिरे स्फुटाः॥८३ यद्यप्येते महास्वमाः, सामान्येन महाफलाः । आनन्दकारिणो राकानिशाकरकरा इव ॥ ८४ ॥ तथापि तज्ज्ञाः प्रष्टव्याः, फलं ज्ञातुं विशेषतः । अमीषां कुमुदानन्दकृत्त्वं शशिरुचामिव ॥ ८५ ॥ आमित्युक्ते कुमारेण, राज्ञा सादरमीरितः। आजुहाव प्रतीहारः, स्वमशास्त्रविचक्षणान् ॥८६॥ १ मम पक्ष्या । २ वृषभः। ३ प्लावयितुमिच्छुः । ४ प्रेरितः। Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy