________________
यथास्थानमथान्यानि पुरोधःप्रभृतीन्यपि । तस्य रत्नानि सर्वाणि जज्ञिरे क्रमयोगतः ॥ २४ ॥ चक्रमार्गानुगः सोऽथ प्रस्थितो दिग्जिगीषया । ययौ मागधतीर्थेशं प्राक्समुद्रविभूषणम् ॥ २५॥ तस्य नामाङ्कबाणेन दूतेनेव समेयुषा । एत्य मागधतीर्थेशः सेवामेव समाश्रयत् ॥ २६ ॥ सोऽपाच्यां वरदामानं पश्चिमायां पुनर्दिशि । प्रभासाधिपतिं देवं विजिग्ये मागधेशवत ॥ २७॥ गत्वा च दक्षिणं रोधः सिन्धुदेवीमसाधयत् । ततो गच्छन्नाससाद चक्री वैताढ्यपर्वतम् ॥ २८॥ चक्रवात्मसाच्चक्रे वैताब्याद्रिकुमारकम् । तेदुपायनमादायानुतमिस्रं जगाम च ॥ २९ ॥ . स तमिस्रागुहाद्वारे द्वारपालमिव स्थितम् । विधिवत् साधयामास कृतमालाभिधं सुरम् ॥ ३०॥ तस्यादेशाच्चमूनाथः सिन्धुमुत्तीर्य चर्मणा । प्रत्यग्निष्कुटमाक्रामत् तस्याः पुनरुपाययौ ॥ ३१ ॥ सेनान्या दण्डरत्नेन कपाटोद्घाटने कृते । ससैन्यः प्राविशच्चक्री गजरत्नेन तां गुहाम् ।। ३२॥ अन्तर्विरचितालोकः काकिणीकृतमण्डलैः । कुम्भिदक्षिणकुम्भस्थमणिभाप्रसरेण च ॥ ३३ ॥ उत्तीर्य वेकिकृतपद्यया चान्तरस्थिते । नद्यामुन्मग्ननिमग्रजले अत्यन्तदुस्तरे ॥ ३४ ॥ खयं विश्लिष्टकपाटेनोत्तरद्वारवर्त्मना । तस्या गुहाया निरगात सह चम्बा स चक्रभृत् ॥ ३५॥ आपातनामकाँस्तत्र किरातानतिदुर्जयान् । मघवेवासुरभटान् विधिवन्मघवाऽजयत् ॥ ३६॥ सिन्धोश्च निष्कुटी प्रत्यगजयत् तच्चमूपतिः । खयं त्वसाधयद् गत्वा हिमाचलकुमारकम् ॥ ३७॥
आगत्तेन । २ तत्प्राभृतम् । ३ चर्मरत्नेन । ४ हस्तिनो दक्षिणकुम्भस्थले स्थितस्य मणेः कान्तिप्रसरेण । ५ वर्धकिरखेन कृता या पद्या सेतुबन्धस्तया। "घवा वाऽसु संवृ०॥ नटं प्राज्यमज संबृ०॥
Jan Education Inter
For Private & Personal use only
2lwww.jainelibrary.org