________________
Jain Education Internat
षष्ठः सर्गः । श्रीमघवचक्रवर्तिचरितम् ।
भरतेऽत्रैव नगरे महीमण्डलनामनि । वासुपूज्यस्य तीर्थेऽभून्नाम्नाऽमरपतिर्नृपः ॥ १ ॥ अनाथानामेकनाथः पृथिवीनाथपुङ्गवः । सुसाधुरिव चारित्रे स न्यायेऽवेहितोऽभवत् ॥ २ ॥ अप्यसौ पुष्पवृन्तेन नाजघान जनं क्वचित् । केवलं पालयामास यत्तेन नवपुष्पवत् ॥ ३ ॥ कामार्थी पादकण्टकवद् धर्म तु किरीटवत् । अधरोत्तरभावेन स दधार विवेकवान् ॥ ४ ॥ अर्हन् देवो गुरुः साधुर्धर्मश्च करुणेति सः । मन्त्राक्षरमिवाध्यायदनुत्तरसुखप्रदम् ॥ ५ ॥ राज्यं जमिवान्येद्युरुत्सृज्य स महायशाः । परिव्रज्यामुपादत्त दत्तविश्वाभयः सुधीः ॥ ६ ॥ स समितिप्राप्तजयो गुतिरक्षणतत्परः । विधिवत् पालयामास प्रव्रज्यां राज्यवच्चिरम् ॥ ७ ॥ अनवद्यैर्मूलगुणैः स उत्तरगुणैरपि । अधिकं शुशुभे दिव्यरत्नालङ्करणैरिव ॥ ८॥ चिरं व्रतं पालयित्वा कालधर्ममुपेत्य सः । ग्रैवेयके मध्य मेऽभूदहमिन्द्रः सुरोत्तमः ॥ ९ ॥
इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । श्रावस्तीत्यस्ति नगरी नगरीणां गरीयसी ॥ १० ॥ गुणरत्नैरसंख्यातैः समुद्र ईव मूर्तिमान् । समुद्रविजयस्तत्र विजयी समभून्नृपः ॥ ११ ॥
* 'ना नर° सं० ॥ का० ॥ १ पुङ्गवः-श्रेष्ठः । २ अप्रमत्तः । ३ कामार्थों पादकण्टकाद् हेयौ, धर्मे तु किरीटवन्मुकुटवदुरादेयमित्यर्थः । ४ कामार्थावधरभावेन धर्मं चोत्तरभावेनेत्यर्थः । ५ व्याधिवत् 'हाशयः । प° मु० ॥
For Private & Personal Use Only
ww.jainelibrary.org.