SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका चतुर्थ पर्व पुरुषचरिते महाकाव्ये पञ्चमः | सर्गः श्रीधर्मनाथजिनचरितम् । ॥४२२॥ नालं क्षणमपि श्रोतुं विधवेत्यक्षराण्यहम् । कौसुम्भधारिणी यासाम्यग्रतस्त्वरिपतस्ततः ॥ १२१ ॥ कृतार्थ मेऽभवजन्म पत्या शिवमहीभुजा । पुत्र! त्वया च पुत्रेण पञ्चमेनार्धचक्रिणा ॥ १२२॥ पत्युर्विपत्तौ यास्यन्ति मत्प्राणाः खयमेव हि । त्यक्ष्यामि तान् प्रविश्यानौ मा भन्मे हीनसत्त्वता॥१२३॥ तत्क्षत्रियकुलाचारमाचरन्त्या ममाधुना । मा स भूरन्तरायस्त्वं वत्स! वात्सल्यतोऽपि हि ॥ १२४॥ समं सुदर्शनेन त्वं पुत्र! नन्द ममाशिषा । पत्युरो प्रयाम्येषा कृष्णवत्मैकवर्त्मना ॥ १२५ ॥ अन्तिमां प्रार्थनां तेऽद्य कुमारैनां करोम्यहम् । निषेधकं विधेरैस्य त्वया वाच्यं न किश्चन ॥ १२६ ॥ एवमुक्त्वा तु सा स्वामिविपच्छ्रवणकातरा । परलोकपुरद्वारं प्रवेष्टुमनलं ययौ ॥ १२७ ॥ दुःखानुबन्धिभिर्दुःखैः श्लथाङ्गो वीवधैरिव । समेऽपि प्रस्खलत्पादः पितुः पाश्वं ययौ हरिः॥१२८ ।।। स्मरन् खां मातरं पश्यंस्तथा पितरमातुरम् । प्रतीकारासहो विष्णुः क्लीवमान्यपतद् भुवि ॥ १२९॥ | राजा दाहज्वरार्तोपि बभाषे धैर्यमाश्रयन् । किमेतद् वत्स ! कातयं स्वकुलानुचितं तव ॥ १३०॥ इयं हि त्वद्भजाधारा वत्स! देवी वसुंधरा । अधैर्यानिपतनस्यां कथं नाम न लजसे ॥१३१॥ त्वय्युच्चैः पुरुषसिंह इत्याख्याकारिणो मम । अज्ञानकारितां मा दास्त्वमेवं धैर्यमुत्सृजन् ।। १३२ ॥ एवं शाङ्गिणमाश्वास्य शिवराजः शिवाशयः । कालधर्म ययौ सायं कः कालं जेतुमीश्वरः ॥ १३३ ॥ श्रुत्वा च मूञ्छितो विष्णुः पपात धरणीतले । महादुमो वात्ययेव वातेनेव च वातकी ॥ १३४॥ * मदाशि। मु०॥ १ कृष्णवर्मा वह्निः। २ मरणस्य । ३ भारैः । ४ समप्रदेशेऽपि । ५ रोगपीडितम् । ६ रोगोपायासमर्थः । ७ भीरुत्वम् ।।लं यातु मु०॥ ८ झञ्झावातेनेव । ९ वातरोगी पुमान् । ॥४२२॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy