SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ अभिषिक्तोऽमरैर्नागदत्ताख्यां शिबिकां विभुः। अधिरुह्य ययौ रम्यमुद्यानं वप्रकाञ्चनम् ॥ ५५॥ प्रियङ्गमञ्जरीपुञ्जमत्तगुञ्जदलिव्रजम् । पुनागोत्ससंदर्भव्याकुलोद्यानपालिकम् ॥ ५६ ॥ पौराङ्गनामृज्यमानखमुखं रोधरेणुभिः । शोभितं पुष्पितैः कुन्दैः सरायुधगृहैरिव ॥ ५७॥ लैवलीपुष्पलवनव्यग्रारामिकदारकम् । मुचुकुन्दमरन्दोदबिन्दुसार्द्रितभूतलम् ॥ ५८॥ बद्धोवींक मरकतैरिवोन्मेरुचकं ततः । प्रविवेश तदुद्यानं शिशिरश्रीमयं प्रभुः ॥ ५९॥ ॥चतुर्भिः कलापकः॥ माघशुक्लत्रयोदश्यां पुष्ये मे चापरेऽहनि । समं राजसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥६॥ द्वितीयेहि सौर्मनसे धर्मसिंहनपौकसि । चकार परमानेन पारणं परमेश्वरः ॥६१॥ दिव्यं समभवत् तत्र वसुधारादिपञ्चकम् । धर्मसिंहो व्यधाद् रत्नपीठं स्वामिपदावनौ ॥ ६२॥ निरपेक्षः शरीरेऽपि समीरण इवास्खलन् । ततः स्थानात् प्रववृते मां विहर्तुं जगद्गुरुः ॥ ६३ ॥ इतश्च जम्बूद्वीपेऽस्मिन् विदेहेष्वपरेषु च । राजा पुरुषवृषभोऽशोकायामभवत् पुरि ॥ ६४ ॥ सदा विरक्तः संसारात् तात्त्विकः सात्त्विकश्च सः। पर्यव्राजीत पादमूले प्रजापालमहामुनेः॥६५॥ दुस्तपं स तपस्तप्वा प्राप्ते काले विपद्य च । अष्टादशसमुद्रायुः सहस्रारे सुरोऽभवत् ॥६६॥ १ प्रियङ्गुलतायाः मञ्जरीणां पुझे मत्तोऽत एवं गुञ्जन्नलिव्रजो भ्रमरसमूहो यसिंस्तत्। २ पुनागपुष्पाणामलकारमथने | व्याकुला उद्यानपालखियो यस्तित् । ३ लवलीपुष्पाणां लबने छेदने व्याकुला उद्यानपालवाला यसिंस्तत् । ४ मुचुकुन्दपुष्पाणां मकरन्दस्य जलबिन्दुभिरा भूतलं यस्य तत् । ५ उत्फुल्ला मरुचकवृक्षा यसिंस्तत् । ६ तनानि नगरे। * °सारे ता संवृ०॥ ७ तत्ववेत्ता। Jan Education in For Private & Personal Use Only R w w .jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy