________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८८॥
द्वितीयं पर्व द्वितीय सर्गः अजितनाथचरितम् ।
ध्वस्तान्धकारपटलः, प्रसरद्भिर्मरीचिभिः । रजन्यामपि तन्वानो, दिनं दिनमणिस्ततः ॥ २८॥ शाखा कल्पद्रुमस्येव, शृङ्गं रत्नगिरेरिख । अभ्रंलिहपताकाङ्कस्तथा रत्नमयध्वजः॥२९॥ विकस्वरनवश्वेतसरोजपिहिताननः । मङ्गलस्यैकनिलयः, पूर्णकुम्भोऽतिशोभनः ॥ ३०॥ पङ्कजैरङ्कितो विश्वक्, श्रीदेव्या विष्टरैखि । पद्माकरोऽथ स्वच्छाम्भोलहरीभिर्मनोहरः ॥ ३१॥ उपर्युपरि कल्लोलं, कल्लोलैरम्बुधिस्तथा । नभःस्थितं चन्द्रमसमालिङ्गितुमना इव ॥ ३२॥ अनुत्तरविमानेभ्य, इवैकतमदागतम् । विचित्ररत्नरचितं, विमानप्रवरं तथा ॥ ३३ ॥ खरत्नसर्वस्वमिव, प्रसूतं रत्नगर्भया । अत्यद्भुतप्रभापुञ्जो, रत्नपुञ्जस्तथोच्चकैः ॥ ३४ ॥ तेजस्विनामशेषाणां, त्रैलोक्योदरवर्तिनाम् । तेजःपुञ्ज इवैकत्राऽऽहृतो निधूमपावकः ॥ ३५॥ एते च विजयादेव्या, परिपाट्याऽनया निजे । प्रविशन्तो मुखाम्भोजेऽदृश्यन्त भ्रमरा इव ॥३६॥ ___ सिंहासनप्रकम्पोऽभूत , तदानीं च दिवस्पतेः । चक्षुःसहस्रादधिकं, चक्षुः प्रायुक्त सोऽवधिम् ॥ ३७॥ अवधिज्ञानतोऽज्ञासीत , तीर्थकृद्गर्भसम्भवम् । रोमाश्चितवपुश्चैवं, चिन्तयामास वासवः ।। ३८॥ असाविदानी विजयादनुत्तरविमानतः । अच्योष्ट जगदानन्दनिदानं परमेश्वरः ॥ ३९॥ ततश्च जम्बूद्वीपाभिधाने द्वीपवरेऽधुना । यौम्यभारतवर्षार्धमध्यखण्डस्य मध्यतः॥४०॥ विनीतायां महापुयाँ, जितशत्रोर्महीपतेः । भार्याया विजयादेव्याः, कुक्षौ समवतीर्णवान ॥४१॥ एतस्थामवसर्पिण्यां, करुणारससागरः। भगवांस्तीर्थनाथोऽयं, द्वितीयीको भविष्यति ॥४२॥ १ आसनैरिव । * इत आरभ्य ३३ पर्यन्तं पाठः खंतापुस्तके पतितः ॥ २ इन्द्रस्य । ३ दक्षिणम् । * द्विती खंता ॥
%
ग
अजितप्रभोर्गर्भावतरण, विजयादे व्याः स्वप्नदर्शनं च। ॥१८८॥
Jan Education International
For Private&Personal use Only