SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चतुर्दश स्वमाः। सधर्मचारिणी चाऽऽसीजितशत्रुमहीपतेः । श्रीमती विजयादेवी, देवीव भुवमागता ॥१३॥ पाणिभ्यां चरणाभ्यां च, नेत्राभ्यां च मुखेन च | चकासामास विकचाम्भोजखण्डमयीव सा ॥ १४ ॥ पृथिव्या भूषणं साऽभूत् , तस्याः शीलं तु भूषणम् । अन्यभूपणभारस्तु, प्रक्रियामानहेतुकः ॥१५॥ । कलाकलापकलनाद् , विश्वशोभानिबन्धनात् । देवी सरस्वती वा सावतीर्णा कमलाऽथवा ॥१६॥ स नरेपूत्तमो राजा, सा नारीषु शिरोमणिः । सदृग्योगस्तयोरासीद् , गङ्गासागरयोरिव ॥ १७॥ इतश्च विजयाच्युत्वा, जीवो विमलभूभुजः। तस्याः श्रीविजयादेव्याः, कुक्षौ रत्नखनाविव ॥१८॥ राधशुक्लत्रयोदश्यां, रोहिणीधिष्ण्यगे विधौ । ज्ञानत्रयधरः पुत्ररत्नत्वेनोदपद्यत ॥ १९ ॥ प्रभावात् स्वामिनस्तस्य, गर्भवासमुपेयुषः । क्षणं सुखं समुत्पेदे, नारकप्राणिनामपि ॥२०॥ तस्या एव हि यामिन्यास्तुर्ये यामेऽतिपावने । देव्या विजयया स्वमा, अदृश्यन्त चतुर्दश ॥२१॥ आदौ तत्र मदामोदभ्रमद्भमरमण्डलः । गर्जितेनाऽतिपर्जन्यो, गजः सुरगजोपमः ॥ २२ ॥ उत्तुङ्गशृङ्गरुचिरः, शरदम्भोदपाण्डुरः । रम्यपादोऽथ वृषभः, कैलास इव जङ्गमः ॥ २३ ॥ नखैरिन्दुकलावरतिकुकुमकेसरैः । केसरैश्च भ्राजमानः, पञ्चाननयुवापि च ॥ २४ ॥ उदस्तपूर्णकुम्भाभ्यां, कुम्भिभ्यां पार्श्वयोर्द्वयोः । क्रियमाणाभिषेका च, कमला कमलासना ॥ २५ ॥ विकासिकुसुमामोदाधिवासितदिगन्तरम् । दिवो ग्रैवेयकमिक, पुष्पदाम दिवि स्थितम् ॥ २६ ॥ सम्पूर्णमण्डलत्वेनाऽकाण्डे राकां प्रदर्शयन् । ज्योत्स्नातरङ्गितव्योमा, शीतधामा ततः परम् ॥ २७ ॥ १ पत्नी। *वाऽसावुत्तीर्णा संता, पात. ॥२ वैशाखः। ३ रोहिणी नक्षत्रस्थिते। । रात्रैः। ५ सिंहः। । हस्तिभ्याम् । ७ पूर्णिमाम् । त्रिषष्टि, ३३ Jain Education Internationa For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy