SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व | द्वितीयः सर्गः अजितनाथचरितम्। ॥१८७॥ द्वितीयः सर्गः। इतोऽस्य जम्बूद्वीपस्य, द्वीपस्य भरते पुरी । अस्ति नाम्ना विनीतेति, शिरोमणिरिवाऽवनेः ॥१॥ तस्यां च त्रिजगद्भर्तुरादितीर्थकृतः प्रभोः। ऋषभखामिदेवस्य, मोक्षकालादनन्तरम् ॥२॥ सिद्धिं सर्वार्थसिद्धं च, निरवच्छिन्नभावतः । गतेष्विक्ष्वाकुवंश्येषु, सङ्ख्यातीतेषु राजसु ॥३॥ अभूदिक्ष्वाकुवंशस्य, विततच्छत्रसन्निभः। विश्वसन्तापहरणो, जितशत्रुर्महीपतिः॥४॥ [विभिर्विशेषकम् ] यशसा विशदेनोचैस्तस्योत्साहादयो गुणाः। प्रपेदिरे सनाथत्वं, धिष्ण्यानीव हिमांशुना ॥५॥ सोऽलब्धमध्योऽब्धिरिव, शशीवाऽऽप्यायको दृशाम् । वौकः शरणेच्छूना, श्रीवल्लीमण्डपोऽभवत् ॥६॥ स सर्वनरदेवानां, हृदयेषु पदं दधत् । एकोऽप्यनेकतां प्राप, जलेष्विव निशाकरः ॥७॥ अभूदाक्रान्तदिक्चस्तेजोभिरतिदुःसहैः । जगतोऽपि स मूर्धन्यो, माध्याहिक इवार्यमा ॥८॥ वसुधां शासतस्तस्य, शासनं वसुधाधवाः । अनिशं धारयामासुः, किरीटमिव मूर्धनि ॥९॥ वसुधाया वसुन्युच्चैराददे च ददे च सः। विश्वलोकोपकाराय, सलिलानीव वारिदः ॥१०॥ धर्मायाऽचिन्तयन्नित्यं, स धर्माय जगाद च । धर्माय व्यचरत् तस्य, सर्व धर्मनिबन्धनम् ॥ ११॥ तस्याऽनुजन्मा नृपतेरसाधारणविक्रमः । सुमित्रविजयो नाम, यौवराज्यघरोऽभवत् ॥ १२॥ अजितप्रभोजन्म । ॥१८७॥ १ नक्षत्राणीच । २ आह्लादकः । Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy