SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व चतुर्थः सर्गः सुप्रभ मालिनी श्रीअनन्तनाथजिनचरितम् । ॥४१०॥ मन्यसे यं बलीयांसं तमाख्याहि यथा क्षणात् । शरमः कैलभस्येव तस्यौजो दर्शयामि ते* ॥ १२६ ॥ किं मत्तेन प्रमत्तेनाप्यवज्ञातोऽसि केनचित् । स्तुतिव्याजेन यस्याद्य विधित्ससि वधं द्विज!॥ १२७ ॥ अथोचे नारदोऽप्येवं नाहं मत्तप्रमत्तयोः । गच्छामि पावं तन्मे स्यात् तदवज्ञा कथं ननु ! ॥ १२८ ॥ भरतार्धेश्वरोऽस्मीति निजायामद्य पर्षदि । यदवादीर्मास्म वादी यस्तद्धि हसाय ते ॥ १२९ ॥ द्वारकायां तु सोमस्य सुप्रभः पुरुषोत्तमः। तनयौ किं त्वया राजन्! जनश्रुत्यापि न श्रुतौ ॥१३०॥ महाबलौ महाबाहू अन्योऽन्यं प्रीतिशालिनौ । मूर्तिमन्तौ पवमान-ज्वलनाविव दुःसहौ ॥१३१॥ शक्रेशानाविव दिवोऽवतीर्णी कौतुकादिह । दोष्णकेनाप्युद्धरेतां तौ सवार्धिधरां धराम् ॥ १३२ ॥ भरतेऽधिष्ठिते ताभ्यां सिंहेनेव महावने । अज्ञानाद् गर्जसि कथं मदान्ध इव सिन्धुरः॥ १३३॥ कोपारुणेक्षणद्वन्द्वो द्वन्द्वेच्छुरिव तत्क्षणात् । दशनैर्दशनान् घर्षन्मधुराजोऽभ्यधादिदम् ॥ १३४ ॥ यदात्थ तदमिथ्या चेत् स्वैरं तत् क्रीडितुं यमः । मया निमश्यतेऽद्यैष रणं द्रष्टुं भवानिव ॥ १३५ ॥ निःसोमं निःसुप्रभं च तथा निःपुरुषोत्तमम् । करोमि द्वारकाराज्यं पश्य युप्रतिभूरिव ॥ १३६ ।। इत्युक्त्वा नारदमुनि विसृज्य प्राहिणोदथ । अनुशिष्य रहो दूतं सोमसोमसुतान् प्रति ॥ १३७ ॥ गत्वाऽऽशु सोमं ससुतं सौजस्कः सोऽभ्यभाषत । ओजायन्तेऽनोजसोऽपि दूताः स्वाम्योजसा खलु ॥१३८॥ नाप्युदरमदान्धर ॥४१॥ १ गजपोतस्य । * °मि च । संवृ०॥ २ विधातुं कर्तुमिच्छसि। ३ हास्याय भवति । ४ समुद्र-गिरिसहितां महीम् । 1५ गजः। ६ युद्धेच्छुः । ७ युद्धसाक्षी। JainEducation a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy