SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ CAM-RECROSON निमित्तीकृत्य चाचार्य सर्वा जगृहतुः कलाः । पूर्वजन्मप्रभावोऽयं तादृशां हि महात्मनाम् ॥ ११२॥ क्रीडाघातमपि तयो सहन्तापरे भटाः । स्पृशनपि गजो हन्ति जिघ्रनपि च पन्नगः॥११३ ॥ लीलावनमिव श्रीणां तौ क्रमेणाङ्गपावनम् । यौवनं च प्रपेदाते बलेन पवनोपमौ ॥ ११४॥ ज्यायसो लाङ्गलादीनि शादीनि कनीयसः । जैत्राणि ददिरे देवै रत्नानि नररत्नयोः॥ ११५॥ __महाबलौ बल-हरी तौ दृष्ट्वा कलिकौतुकी। प्रतिविष्णोर्मधोर्धाम जगामोत्पत्य नारदः ॥ ११६॥ तं दत्ता? नमस्कृत्य कृत्यज्ञोऽभिदधे मधुः। महामुने ! स्वागतं ते दिष्ट्या दृष्टिपथेऽसि नः ॥ ११७॥ मदीयाः किङ्कराः सर्वे भरतार्धेऽत्र भृभुजः। ते मागधवरदामप्रभासेशाश्च नाकिनः॥१९८॥ तदत्र वस्तुना येन येन देशेन वा तव । योऽर्थस्तं ब्रूहि निःशक्षं यथा यच्छामि नारद!॥ ११९॥ नारदोऽप्यब्रवीदेवं क्रीडयाऽहमिहागमम् । न मेऽर्थोऽर्थेन केनापि न वा देशेन केनचित् ॥ १२०॥ __ भरतार्धेश ! इति तु त्वं मुधैव विकत्थ्यसे । बन्द्यर्थवादः सर्वोऽपि किं यथार्थी भवेत् क्वचित् ॥ १२१॥ अर्थलोभादर्थिजनैः स्तूयमानेन धीमता । लजितव्यं प्रत्युतापि प्रत्येतव्यं न जातुचित् ॥ १२२ ॥ बलिभ्योऽपि बलितमा महङ्ग्योऽपि महत्तमाः। दृश्यन्ते ह्यत्र जगति बहुरत्ना वसुन्धरा ॥ १२३ ॥ मधुरन्तर्भवत्कोपोऽन्तःशिखीव शमीतरुः । सद्यो दष्टाधररदो नारदं प्रत्यभाषत ।। १२४ ॥ भरतार्धेत्र गङ्गातः का नाम महती नदी । वैताख्यात को महानद्रिः कश्च मत्तो बलाधिकः? ॥१२५।। ___* °डायात मु.॥ क्रीडारूपमाघातमपि । १ अर्घः पूजाविधिः। कथ्यसे। संवृ. का०॥ २ बन्दिजनैर्गीयमानोऽर्थवादः स्तुतिपाठः। ३ भम्तमध्ये शिखी वहिर्यस्य सः। त्रिषष्टि. ७० Jain Education In n For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy