________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व चतुर्थः
सर्गः
॥४०९॥
|श्रीअनन्तनाथजिनचरितम् ।
जित्वा भरतवर्षाधं त्रिखण्डं ग्रामलीलया । स एवमसमस्थामा नामेन्दो खमलीलिखत् ॥ ९८॥ चक्राक्रान्तद्विपक्रः शक्रतुल्यश्च विक्रमातं । अभूत प्रत्यर्धचक्री स चतुर्थः पुरुषायमा ॥९९॥ अभूदुत्कटदो कूटकुट्टितारिभटोद्भटः । वैरिश्रीभोगलटभः कैटभः सोदरोऽस्य तु ॥१०॥ __ तदा च द्वारकापुर्या सोमसूर्यसमो गुणैः । सोम इत्याख्यया ख्यातो बभूव पृथिवीपतिः ॥१०॥ तस्याभूतामुमे पन्यो तत्रैका स्निग्धदर्शना । सुदर्शनाऽन्या तु सीता शीतद्युतिसमानना ॥१०२॥ इतश्च स सहस्रारान्महाबलवरः सुरः । च्युत्वा सुदर्शनादेव्या उदरे समांतरत् ॥ १०३ ॥ तदा सुदर्शनादेवी सीरभृजन्मसूचकान् । चतुरो यामिनीशेषे महाखमानुदैवत ॥ १०४ ॥ ततो मासेषु नवसु दिनेष्वर्धाष्टमेषु च । देवी सुदर्शनाऽसूत सुतं सितरुचिप्रभम् ॥ १०५॥ कृतार्थयन्नार्थिवर्गानुत्सवेन महीयसा । तस्य सुप्रभ इत्याख्यां विदधे सोमभूपतिः॥१०६॥ सहस्राराद् दिवश्युत्वा पूर्णायुः सोऽपि कालतः। जीवः समुद्रदत्तस्य सीताकुक्षाववातरत् ॥ १०७ ॥ तदा साऽपि महाखमाञ्च्छाङ्गभृजन्मसूचकान् । सप्त सुप्ता निशाशेषेद्राक्षीत् प्रविशतो मुखे ॥१०८॥ संपूर्ण समये सापि नीलरत्नामलत्विषम् । तनयं जनयामास सर्वलक्षणलक्षितम् ॥१०९॥ शाङ्गपाणेश्चतुर्थस्य तस्याथ दिवसे शुभे । पुरुषोत्तम इत्याख्यां यथार्थामकरोत् पिता ॥११॥ नीलपीताम्बरौ तालतायकेतू महाभुजौ । तावभातां सहचरौ प्रीत्या युग्मभवाविव ॥१११॥
चन्द्रे खं नामालिखत् अर्थात् तस्य चन्द्रलोकपर्यन्ता कीर्तिः प्रासरत् । २ चक्रम्-समूहः। * 'चक्रश संवृ०॥ It'त् । समभूदर्ध संवृ० ॥ ३ अर्यमा-सूर्यः । ४ लटभः-रम्यः; 'लडह' इति देश्यशब्दात् संस्कृतम् । वासरत् । का०॥
॥४०९॥
Jain Education Internet
For Private & Personal use only
Jww.jainelibrary.org.