SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते महाकाव्ये ॥४०८ ॥ Jain Education Inte समुद्रदत्त इत्यासीद् दत्तमुद्रोऽरितेजसाम् । समुद्र इव गम्भीरस्तस्यां वसुमतीपतिः ॥ ७५ ॥ पत्नी तस्याभवन्नन्दा नयनानन्दचन्द्रिका । रूपेण रूपाहङ्कारहरणी सुरयोषिताम् ॥ ७६ ॥ नृपस्य तस्य मलयपवमानो मधोरिव । मित्रं मलयभूनाथोऽभ्याययौ चण्डशासनः ॥ ७७ ॥ समुद्रदत्तस्तं प्रीत्या महत्या निजसद्मनि । सादरः सोदरमिवाभोजयत् सपरिच्छदम् ॥ ७८ ॥ मृगाक्षीं तत्र सोऽद्राक्षीन्नन्दामानन्दिनीं दृशोः । पत्नीं समुद्रदत्तस्य समुद्रस्येव जाह्नवीम् ॥ ७९ ॥ स्तब्धाङ्गः कीलित इव स्मरास्त्रैरतिदुःसहैः । जातवेदो विप्रलम्भानलधर्मादिवोल्वणात् ॥ ८० ॥ सर्वाङ्गमङ्कुरितमेव पुलकेन च । भिन्नखरो ग्रहग्रस्त इव तस्या वपुर्गुणैः ॥ ८१ ॥ प्रकम्पमान सर्वाङ्गस्तदा श्लेष इवोत्सुकः । शुचेव वैवर्ण्यधरस्तेद संप्राप्तिजन्मया ॥ ८२ ॥ वाष्पेण लुप्तनयनः कामान्ध्यमिव धारयन् । तदप्राप्त्या मृत्युमिवानेतुं प्रलयमाश्रयन् ॥ ८३ ॥ नन्दामालोक्य तत्कालं सर्वाङ्गोपाङ्गसुन्दरीम् । कां कामवस्थां न प्राप मान्मथीं चण्डशासनः ॥ ८४ ॥ ॥ पञ्चभिः कुलकम् । समुद्रदत्तदत्तौर्कस्युवासाथ निशास्खपि । लेभे न निद्रां कामार्तो रोगार्त इव सोऽस्तधीः ॥ ८५ ॥ *ग्थो (थः) प्रययौ सं० ॥ १ आगतः । २ विप्रलम्भो वियोगः, स एवानलोऽग्निस्तेन धर्मः उष्णस्तस्मात् । ३ अङ्कुरित:पुलकितः । ४ भूताविष्टः । ५ तस्या नन्दाया अलाभाजातेन शोकेन पाण्डुतां दधदिव । ६ तस्यां नन्दायामेव लयं तन्मयतां धारयन् कामार्त्तस्य प्रकृतिकृपणत्वाद् नन्दामन्तरेण सर्वमपि नष्टुमिच्छन् इत्यर्थः । ७ कामसंबन्धिनीम् । ८ ओको गृहम् । उवास 'वस्' धातोः परोक्षायामन्यपुरुषैकवचनम् । For Private & Personal Use Only चतुर्थ पर्व चतुर्थः सर्गः श्रीअनन्त नाथजिन चरितम् । ||४०८ ॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy