________________
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व चतुर्थः
सर्गः
॥४०७॥
श्रीअनन्तनाथजिनचरितम् ।
शैशवं व्यतिचक्राम क्रमादिन्दुरिव प्रभुः । पञ्चाशद्धनुरुत्तुङ्गः प्रतिपेदे च यौवनम् ॥ ४९ ॥ निश्चिन्वानो हेयबुद्ध्या मार्गस्थित इवाश्रयम् । पित्राज्ञयाऽनन्तनाथश्चक्रे दारपरिग्रहम् ॥५०॥ अर्धाष्टमेषु लक्षेषु गतेषु शरदामथ । स्वामी पित्रनुरोधेन राज्यभारमुपाददे ॥५१॥ वर्षलक्षाः पञ्चदश पालयित्वा वसुन्धराम् । दधार चिन्तां मनसि दीक्षायै सिंहसेनभूः ॥५२॥ ब्रह्मलोकात् सुरा लौकान्तिकाः सारस्वतादयः। तीर्थ प्रवर्तय स्वामिन्नित्यूचुः परमेश्वरम् ॥५३॥ जृम्भकैजृम्भभिच्छिष्टकुबेरप्रेरितैः सुरैः। पूर्यमाणेन वित्तेन वर्षदानं ददौ विभुः॥५४॥ तस्य दानस्य पर्यन्ते भवपर्यन्तकामिनः । दीक्षाभिषेकं विदधुः सुरा-ऽसुर-नृपाः प्रभोः॥५५॥ आमुक्तचित्रनेपथ्यवस्वमाल्यो जगत्पतिः। ततः सागरदत्ताख्यामारोहच्छिबिकां वराम् ॥ ५६ ।। शक्रादिभिर्धतच्छत्रचामरव्यजनः प्रभुः । तया शिविकयोद्यानं सहस्राम्रवणं ययौ ॥ ५७॥ दोलौऽऽन्दोलनसंसक्तनागरस्त्रीजनैर्मुहुः। तदानीं गच्छदागच्छत्खेचरीभिरिवाकुलम् ॥ ५८॥ प्रत्यग्रपल्लवातानविठुलभृङ्गकुन्तलैः । अशोकैर्मधुना मत्तैरिव घूर्णद्भिरोचितम् ॥ ५९ ॥ क्रीडाश्रान्तपुरस्त्रीणां श्रमसर्वस्वहारिभिः । चूतैरुत्पल्लवै रम्यं तालवृन्तधरैरिव ॥ ६॥ कर्णिकारैः कर्णिकाभिरिवोद्यन्माधवश्रियः । रुचिरं काश्चनारैश्च काञ्चनैस्तिलकैरिव ॥ ६१॥
निश्चयं कुर्वाणः स्यागबुद्ध्या । २ जृम्भभूच्छिष्टः जृम्भभृद् इन्द्रस्तेन शिष्टः आज्ञप्तः । ३ दोला-'हिंडोळो' इति भाषायाम् । ४ विलुलन्तो व्याप्ता ये भ्रमरास्ते एव कुन्तलास्तैः। ५ व्याप्तम् । ६ कर्णिकारैः, काञ्चनारैः-तबामकपुष्पविशेषैः ।
॥४०७॥
Jain Education Internet
For Private & Personal use only
A
maw.jainelibrary.org.