SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ कश्चिदप्यतिवाद्येवं कालं सोऽथ विवेकवान् । चित्तरक्षगुरोः पादमूले दीक्षामुपाददे ॥१०॥ अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृनाम कर्म सः । बद्धा मृत्वा प्राणतस्य पुष्पोत्तरे सुरोऽभवत् ॥११॥ ___ इतश्च जम्बूद्वीपेऽसिन् भरतार्धेत्र दक्षिणे । इक्ष्वाकुवंशगिरिभूरयोध्येत्यस्ति पूर्वरा ॥ १२॥ विमलखच्छपयसा परिखावलयेन सा । विराजते रतस्रस्तवेणीव वरवर्णिनी ॥१३॥ सुनिष्क्रमप्रवेशानि सत्संधीन्यर्थवन्ति च । सुभूमिकानि वेश्मानि नाटकानीव तत्र च ॥१४॥ तस्यां गृहोर्श्वभूमीषु काश्चन्यो भान्ति जालिकाः । प्रत्येकं गृहलक्ष्मीभिरांबद्धा मुकुटा इव ॥१५॥ तत्र चैत्येष्वर्हदचोंपुष्पगन्धवहोऽनिलः । तापनाशाय लोकानां भवत्यमृतनस्थवत् ॥ १६ ॥ तस्थामासीत् सिंह इव विक्रमेणातिशायिना । अग्रेसरो नृसिंहानां सिंहसेनो महीपतिः॥१७॥ उपचारं प्रयच्छन्तः स्वस्य कल्याणकाम्यया । तस्याधिदैवतस्येव भक्या भूमिभुजोऽभवन् ॥१८॥ अग्रणीगुणिनां तैस्तैः सोऽवदातैर्निजैर्गुणैः । जगदापीणयामास करैरिव निशाकरः ॥ १९ ॥ काममर्थ च धर्म च स दधौ स्वस्खमात्रया । सेवाऽऽगतान् राजपुत्रानिवौचित्यविचक्षणः ॥२०॥ सधर्मचारिणी तस्याभवद् धर्मस्य वासभूः । सुयशा नाम यशसा खशीलेनैव शालिनी ॥२१॥ * किञ्चि संवृ० का०॥ १ इक्ष्वाकुवंश एव गिरिस्तस्य भूः स्थानम् अथवा इक्ष्वाकुवंशस्य गिरिभूः गका पवित्रत्वात् । २ रतिप्रसङ्गे विशीर्णवेणीव । + स्तवनेव मु.॥ ३ उत्तमरमणी। सुष्टु गमनागमनद्वाराणि । ५ सुष्टुपर्वाणि, अन्यत्र नाटकस्वाङ्गविशेषः सन्धिः। ६साधनवन्ति। 'रायुक्ता, मु. 'रामुक्ता का०॥ इन्धहरोऽनि मु.॥. नस्यम्घ्राणम् । ८ उपायनम् । 'न्त आत्मक° मु०॥ ९मात्रा-औचित्यम् । Jain Education For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy