SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थः सर्गः। श्रीअनन्तनाथचरितम् । 5 चतुर्थ पर्व चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम् । ॥४०५|| पायादनन्तस्वामी वः सिद्धानन्तचतुष्टयः । इहापि देहिनां मोक्ष इवानन्तसुखप्रदः॥१॥ श्रीमतोऽनन्तनाथस्य चरित्रमिदमुच्यते । यानपात्रमिवापारसंसाराम्भोधितारणे ॥२॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । ऐरावताख्येऽरिष्टेति नगर्यस्ति गरीयसी ॥३॥ राजा पद्मरथो नाम तस्यामासीन्महारथः। द्विषद्रथिरथव्यहँस्खलनैकमहागिरिः॥४॥ स जित्वापि द्विषोऽशेषान् साधयित्वाखिलामिलाम् । न तृणायाप्यमंस्तैनां मोक्षश्रीसाधनोत्सुकः॥५॥ विहारलीलामुद्याने जलक्रीडां च वापीषु । गन्धर्वाणां च मधुरसंगीतकविलोकनम् ॥ ६॥ वारणाऽश्वादियानानां गतिवैचित्र्यदर्शनम् । वसन्तकौमुदीप्रायक्रीडोत्सवनिरीक्षणम् ॥ ७॥ नाटकप्रभृतिदशरूपकाभिनयोत्सवम् । खर्विमानप्रतिमानवासौकोवसनं तथा ॥८॥ विचित्रवस्त्रनेपथ्याङ्गरागाकल्पकल्पनम् । न रागात् सोऽन्वभूव किन्तु लोकयात्रानुवर्तनात् ॥९॥ ॥ चतुर्भिः कलापकम् ॥ *हतुलनै संवृ०॥ १ प्रतिमानम्-प्रतिबिम्बम्-सादृश्यम् । २ ओक:-हर्म्यम्-गृहम् । ३ माकल्पकरुपनम्-भूषणपरिधानम्। ४ लोकवृत्त्यनुसरणात् । ॥४०५॥ Jain Education Internet For Private & Personal use only Plwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy