________________
Jain Education Intern
निर्वाणमहिमा भर्तुः संयतानां च सर्वतः । उपेत्य विदधे तत्र पुरुहूतादिभिः सुरैः ॥ २२६ ॥ कौमारे पञ्चदशाब्दलक्षास्त्रिंशदिलाऽवने । व्रते पञ्चदशेत्यायुः प्रभोः षष्ट्यब्दलक्ष्यभूत् ॥ २२७ ॥ श्रीवासुपूज्य निर्वाणाद् विमलखामिनिर्वृतिः । सागराणां त्रिंशति तु व्यतीतायामजायत ।। २२८ ॥ स्वयम्भूरपि चैश्वर्यमदेन प्रभविष्णुना । परिलुप्तविवेकः सन् क्रूरकर्माकरोन्न किम् ॥ २२९ ॥ षष्टिं वत्सरलक्षाणि संपूर्यायुर्निजं हरिः । तैस्तैः खकर्मभिः षष्ठीं जगाम नरकावनीम् ॥ २३० ॥ स्वयम्भुवः कुमारत्वे द्वादशाब्दसहस्यभूत् । सैव मण्डलिकत्वे च नवत्यब्दी तु दिग्जये ॥ २३१ ॥ राज्ये त्वेकोनषष्ट्यब्दलक्षाण्यथ सहस्रकाः । पञ्चसप्ततिरधिका दशाग्रैर्नवभिः शतैः ॥ २३२ ॥
भद्रोऽपि सोदरविपत्तिशुचा विरक्त आचव्रतोऽथ मुनिचन्द्रमुनेः समीपे । षष्टिं च पश्च च निजायुषि वर्षलक्षान् नीत्वा विपद्य च पदं परमं प्रपेदे ॥ २३३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीविमलनाथ - खयम्भू-भद्र-मेरकचरितवर्णनो नाम तृतीयः सर्गः ॥ ३ ॥
१ पृथ्वीपालने ।
For Private & Personal Use Only
श्रीविमलजिनस्य निर्वाणम् ।
www.jainelibrary.org.