SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ | विमलनाथजिनस्य कैवल्यं समवसरणं च SANSARASASURAL ततश्च साधयामास भरतार्ध सदक्षिणम् । दधद् दक्षिणपाणिस्थं चक्रं दिक्चक्रजित्वरम् ॥ १६८॥ दिग्यात्राया न्यवर्तिष्ट स्वयम्भूर्भूर्जयश्रियः । भरतार्धश्रिया स्वैरं रममाणो नवोढया ॥ १६९ ॥ गच्छन् मार्गे शार्ङ्गपाणिर्मगधेषु ददर्श च । शिलां कोटिनरोत्पाव्यां कपालपुटवद् भुवः ॥१७० ॥ वामेनोत्पाटयामास बाहुना तामधोक्षजः । लीलयाऽपि वसुमतीमधिभूः फणिनामिव ॥ १७१ ॥ शिलां तां न्यस्य तत्रैव दोष्मतां चित्रमादधत् । ययौ दिनैः कतिपयैः पुरीं द्वारवती हरिः॥१७२ ॥ तत्र रुद्रेण भद्रेण पार्थिवैरपरैरपि । स्वयम्भुवोऽर्धचक्रित्वाभिषेकोऽकारि सोत्सवैः ॥ १७३ ॥ ___इतच वर्षद्वितयं छमस्थो विमलप्रभुः। विहृत्य दीक्षोपवनं सहस्राम्रवणं ययौ ॥ १७४ ॥ तत्र जम्बूतले भर्तुरपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः ॥ १७५ ॥ षष्ठयां सितायां पौषस्योत्तरभद्रपदासु मे । उदभूत् केवलज्ञानं पष्ठेन तपसा प्रभोः ॥ १७६ ॥ दिव्ये समवसरणे विदधे देशनां विभुः । गणेशाः सप्तपश्चाशचाभूवन् मन्दरादयः ॥ १७७ ।। तत्तीर्थेऽभूत् षण्मुखाख्यो यक्षः शिक्षिरथः सितः। दक्षिणैः फलचकेषुखड्गपाशाक्षसूत्रिभिः॥१७८॥ वामैः सनकुलचक्रकोदण्डफलकांशुकैः । अभीदेन च दोर्दण्डैर्भर्तुः शासनदेवता ॥१७९ ॥ तथोत्पन्ना विदिताख्या हरितालसमद्युतिः । पद्मारूढा बाणपाशधरदक्षिणपाणिका ॥१८॥ कोदण्डनागसंयुक्तदक्षिणेतरवाहुका । श्रीमद्विमलनाथस्य जज्ञे शासनदेवता ॥ १८१॥ ताभ्याममुक्तसांनिध्यस्ततः स्थानाजगद्गुरुः । विहरन्नन्यदा द्वारवत्याः परिसरं ययौ ॥ १८२ ॥ १ स्थान जयलक्ष्म्याः । २ इन्द्रः। ३ स्वामी। *श्च मासद्वि का०॥ मयूरवाहनः। ५ अभयदून । Jain Education in क For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy