________________
त्रिषष्टिशलाका
चतुर्थ पर्व तृतीयः
पुरुषचरिते महाकाव्ये
॥ सर्ग: श्रीविमलनाथजिनचरितम्।
॥४०२॥
SAGARLASSRAEBAREERSAX
मुक्त्वाऽपि चक्रं नष्टव्यं यत् त्वयाऽद्यापि नश्यताम् । काकानां तस्कराणां च नश्यतां का ननु त्रपा? ॥१५४॥ मुश्च मुश्चाथवा चक्रं बलमस्यापि दृश्यताम् । अपि ते म्रियमाणस्य नानुतापो यथा भवेत् ॥१५५॥ इत्युक्तो मेरकश्चक्रं व्योग्नि भौममिवापरम् । ज्वालाजालकरालं तद् भ्रमयित्वाऽमुचद् द्विषि ॥१५६॥ शाङ्गपाणेरुरःपीठं तेनाजघ्ने चपेटया । कांसतालं कांस्यतालेनेव प्रास्फलता दृढम् ॥ १५७॥ चक्रतुम्बाग्रघातेन खयम्भूस्तेन मूच्छितः। पपात खन्दनोत्सङ्गे क्षीबवत् तरलेक्षणः ॥ १५८ ।। दधार च तमुत्सङ्गे मुशली प्रियवान्धवः । वत्साश्वसिह्याश्वसिहीत्युच्चरन् साश्रुलोचनः॥१५९॥ तैरेवाश्रुजलैर्धातुः सिक्तो वक्षसि शाङ्गभृत् । लब्धसंज्ञः समुत्तस्थौ तिष्ठ तिष्ठेत्यरिं वदन् । १६० ॥ उत्थायादाय तचक्रं कालचक्रमिव द्विषाम् । हरिमरकमित्यूचे दृष्टः मेरेक्षणैनिजैः ॥ १६१ ॥ इदं सर्वास्त्रसर्वखं जीवितव्यमिदं च ते । तद्गतं पश्यतोऽप्यद्य शिरोरत्नमहेरिव ॥ १६२॥ कस्य तिष्ठस्यवष्टम्भाद् गच्छ गच्छाधुना ननु । हन्ति खयम्भून परान् समरादपगच्छतः ॥ १६३ ॥ मेरकोऽप्यनवीन्मुश्च पश्यौजोऽस्य स्वमप्यहो! नाभूत् पस्युः कलत्रं या सास्यादुपपतेः कथम् ? ॥१६४॥ इत्युक्तः शाङ्गभृच्चक्र भ्रमयित्वा मुमोच तत् । लीलया मौलिकमलं मेरकस्य चकर्त च ॥१६५॥ खयम्भुवश्वोपरिष्टात पुष्पवृष्टिर्दिवोऽपतत् । तथैव पृथिवीपृष्ठे कबन्धो मेरकस्य च ॥१६६ ॥ नृपैश्च मेरकायत्तैः स्वयम्भूः शिश्रिये क्षणात् । न्ययात्रा हि सैवाभूत् परमन्यतरो वरः ॥१६७ ॥
मङ्गलग्रहम् । २ 'खडताला' इति भाषायाम् । ३ स्यन्दनो रथः। ४ क्षीबो मत्तः। ५ वत्स! आश्वसिहि आश्वसिहि इति उच्चरन्-इति विभागः। ६भालम्बनात् । जारस्य । ६ 'धड' इति भाषायाम् । ९ जन्यम्-युद्धम् ।।
॥४०२॥
Jan Education inte
For Private & Personal use only
Collwww.jainelibrary.org