SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्ग: ॥४०॥ KASARAN आमित्युक्तो मेरकेण स द्रुतं द्वारकां ययौ । भद्र-स्वयम्भूसहितं रुद्रं चैवमभाषत ॥ १२५॥ चतुर्थ पर्व किमेतत् तव पुत्राभ्यामज्ञानान्नृपते! कृतम् । हन्यते न खलु श्वाऽपि स्वामिनो मुखलज्जया ॥१२६ ॥ तृतीयः एवमप्यर्यतां सर्व न ते दोषो भविष्यति । छादयिष्यत्यात्मजयोर्दोषमज्ञानतैव हि ॥ १२७॥ अथ खयम्भूरित्यूचे स्वामिभक्त्या भवानिदम् । तातं प्रत्यार्यभावेन चार्यधीर्वक्ति साधु तत् ॥१२८॥ीमित धीरीभूय निरीक्षध्वं तस्याच्छिन्नमिदं कियत् । आच्छेत्स्यामो महीं सर्वां वीरभोग्या हि भूरियम् ॥१२९॥ नाथजिनआर्यस्य बलभद्रस्य दोष्णोर्मम च को बलम् । सहिष्यते कृतान्तस्य कुपितस्येव संगरे ॥ १३०॥ चरितम् । एक तमेव हत्वाऽहं भोक्ष्येऽर्धभरतं खयम् । किमन्यैः कुट्टितै पैहुभिः कीटकैरिव ॥ १३१॥ तेनापि दोर्बलेनात्तं भरतार्ध न पैतृकम् । तन्न्यायेन ममाप्यस्तु बलिनो बलिनामपि ॥ १३२॥ इत्युक्त्या विसितो भीतो हीतश्च सचिवोऽथ सः । गत्वा द्रुतं मेरकाय समाचख्यौ यथातथम् ॥१३३॥ मत्तेभ इव संक्रुद्धस्तस्य दुःश्रवया गिरा । कम्पयन् क्ष्मां सैन्यभारैः प्रतस्थे मेरकस्ततः ॥१३४ ॥ इतः स्वयम्भू रुद्रेण भद्रेण च समन्वितः । प्रतस्थे द्वारकापुर्याः कन्दरादिव केसरी ॥१३५॥ जनयन्तौ जनक्षोभं भैरवी रौद्र-मेरको । राहु-सौरी इवैकत्र क्रमेणाथ समेयतुः ॥ १३६ ॥ अभूच्छत्रप्रहाराग्निकरालितदिगन्तरः । तत्सैन्ययोः संप्रहार: प्रहाण इव दारुणः ॥ १३७ ॥ खयम्भूः पूरयामास पाञ्चजन्यमथ स्वयम् । अशेषद् द्विषदुच्चाटमत्रोपममहाखनम् ॥ १३८॥ ॥४०१॥ पाञ्चजन्यध्वनेस्तस्मात् त्रेसुरकसैनिकाः। न हि केसरिबूत्कारं श्रुत्वा तिष्ठन्ति वारणाः ॥१३९ ॥ १ सौरि:-शनिः। २ प्रलयकाल इव; 'हार संबृ० का०॥ ३ गजाः । Jain Education Inter For Private & Personal use only M uww.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy