SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्गः श्रीविमलनाथजिनचरितम् । रिति तस्यापि नामङ्गपतिमासुरम् । जय सुखसमा निशाशेषऽपरसीव सरोरुहम् ॥१ ॥४०॥ भद्र इत्यभिधां तस्य विदधे रुद्रभूपतिः । कुलभद्रश्रिया साधं व्यवर्धिष्ट क्रमेण सः ॥९६ ॥ धनमित्रस्य जीवोऽपि प्रच्युत्याच्युतकल्पतः । उत्पेदे पृथिवीकुक्षी सरसीव सरोरुहम् ॥ ९७॥ सापि सप्त महाखमान् शाङ्गभृजन्मसूचकान् । सुखसुप्ता निशाशेषेऽपश्यत प्रविशतो मुखे ॥ ९८॥ संपूर्णे समये साऽपि श्यामागमतिभासुरम् । असूत सूनुं वैडूर्य वैडूरगिरिभूरिव ॥ ९९ ॥ खयम्भूरिति तस्यापि नामधेयं प्रमोदभाक् । विदधे रुद्रभूपाल उत्सवेन महीयसा ॥१०॥ नित्यमेव हि धात्रीभिः पाल्यमानः स पञ्चभिः । व्यवर्धिष्ट समितिभिर्मुनेरिव तपोऽनघम् ॥१०१॥ भद्र-स्वयम्भुवौ प्रीत्या संगच्छेते स्म सर्वदा । प्रवाहाविव तौ गाङ्ग-यामुनौ श्वेतमेचकौ ॥१०२॥ सेहिरे न तयोः पादघातान् राजकुमारकाः। तत्पादपरिघातेन भ्रश्यन्ति स्माद्रयोऽपि यत् ॥१०३॥ नील-पीतांशुकभृतौ तौ ताल-गरुडध्वजौ । चलन्तौ क्रीडयाऽप्युवी पर्यचालयतामिमाम ॥१०४॥ अभ्यासः सर्वशस्त्रेषु सर्वशास्त्रेषु चाभवत् । दोर्वीर्य-बुद्ध्योस्तारुण्यमिव लक्ष्मीविशेषकृत ॥१०५॥ पुरीपरिसरेऽन्येधुः क्रीडन्तौ तावपश्यताम् । हस्त्यश्वकोशबहुलं सारखं शिविरं स्थितम् ॥ १०६॥ इदं प्रैष्यत केनेहासुहृदा सुहृदाऽथवा । इति लागलिना पृष्टः प्रोवाच सचिवात्मजः ॥१०७॥ भूभुजा शशिसौम्येन मेरकायार्धचक्रिणे। प्रेषितं प्राभृतमिदं दण्डे जीवितकाम्यया ॥१०८॥ तच्छुत्वा कुपितः शाङ्गपाणिरेवमवोचत । किं नः संपश्यमानानां दण्डस्तमै भविष्यति ॥१०९ ॥ वैराको मेरकः कोऽयं यः किलामासु सत्स्वपि । पार्थिवान् दण्डयत्येवं द्रष्टव्यं तस्य पौरुषम् ॥ ११०॥ *र्य विडू संवृ०॥ . समितयः-ईर्यादयः पञ्च । २ मेचकः-कृष्णः। ३ वराक:-'रांक' 'बीचारो' इति भाषायाम् । ॥४०॥ Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy