SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Jain Education In सोऽटन्नितस्ततोऽन्येद्युर्ददर्शर्षि सुदर्शनम् । पपौ च देशनां तस्माद् यूपं रोगीव लङ्घितः ॥ ८१ ॥ प्रतिबुद्धः परिव्रज्यां जग्राह च तदन्तिके । चिरं च पालयामास पमानं तमविस्मरन् ॥ ८२ ॥ फलेन तपसोऽमुष्य वधाय बलिभूपतेः । भवान्तरेऽहं भूयासं निदानमपि स व्यधात् ॥ ८३ ॥ इत्थं कृतनिदानः सन् मृत्वाऽनशनकर्मणा । उदपाद्यच्युते कल्पे प्रकृष्टायुःस्थितिः सुरः ॥ ८४ ॥ यति लिङ्गमुपादाय बलिः कालेन गच्छता । विपद्य समभूत् कल्पे महर्द्धिरमरोत्तमः ॥ ८५ ॥ च्युत्वा च भरतक्षेत्रे स नन्दनपुरेऽभवत् । देव्यां सुन्दर्यां समरकेसरिक्ष्मापतेः सुतः ॥ ८६ ॥ स्निग्धाञ्जनद्युतिवपुः षष्टिधन्वोन्नताकृतिः । षष्टिवत्सरलक्षायुरभादद्भुतविक्रमः ॥ ८७ ॥ वैताढ्यं प्रतापढ्यो भरतार्धमसाधयत् । अभूच्च प्रतिविष्णुः स मेरकाख्योऽर्धचक्रभृत् ॥ ८८ ॥ वौजस्वी तेजस्वीव रवेः पुरः । न कोऽपि तस्य पुरतः प्रतिमल्लोऽभवन्नृपः ॥ ८९ ॥ दैवस्येव न तस्याज्ञां व्यत्यलङ्घिष्ट कश्चन । रक्षाशिखाबन्धमिव सूर्ध्ना सर्वेऽप्यधुः पुनः ॥ ९० ॥ इतश्च भरतक्षेत्रे द्वारकायामभूत् पुरि । समुद्र इव गम्भीरो रुद्रो नाम महीपतिः ॥ ९१ ॥ श्री - पृथिव्याविव साक्षात् सुप्रभा पृथिवीति च । तस्याभूतामुभे कान्ते कान्ते रूप- गुणश्रिया ॥ ९२ ॥ जीवो नन्दसुमित्रस्य सोऽनुत्तरविमानतः । प्रच्युत्य सुप्रभादेव्या उदरे समवातरत् ॥ ९३ ॥ चतुरोऽथ महाखमान् हलभृजन्मसूचकान् । सुखसुप्ता निशाशेषे सुप्रभादेव्युदैक्षत ॥ ९४ ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । सुप्रभा सुषुवे सूनुमनूनं शशितो रुचा ॥ ९५ ॥ १ अवमानात् । २ रसम् । * "मपि स्म° मु० ॥ ३ 'नियाणुं' भाषायाम् । For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy