SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते द्वितीयं पर्व प्रथमः सर्गः अजित ॥१८६॥ SOLUSIC चरितम्। विषेहे हन्यमानोऽपि, न तु प्रतिजघान सः। जीवानाशात् क्रुधो दौष्ट्यात् , क्षमया च गुणार्जनात् ॥२८८॥ नाध्याचितं यतीनां यत्, परदत्तोपजीविनाम् । याज्जादुःखं न चक्रे तन्नेयेष गृहितां च सः॥२८९॥ परात् परार्थ खार्थ वा, स लेभेऽन्नादिकं न वा । लाभेऽमाद्यन्न नाऽलाभेऽनिन्दत् स्वमथवा परम् ॥२९॥ स रोगेभ्यो नोद्विविजे, न चकाङ्क्ष चिकित्सितम् । शरीरादात्मभेदज्ञोऽसहताऽदीनमानसः ॥२९१ ॥ . अमृताल्पाणुचेलत्वे, संस्तृतेषु तृणादिषु । सेहे तत्स्पर्शजं दुःखमियेष न च तान् मृदून ॥ २९२॥ ग्रीष्मातपपरिक्लिन्नात् , सर्वाङ्गीणमलादपि । न स उद्विविजे स्नातुं, नैच्छन्नाऽ प्युदवर्त्तयत् ॥ २९३ ॥ अभ्युत्थानेऽर्चने दाने, न सोऽभूदभिलाषुकः । न व्यषीददसत्कारे, सत्कारेऽपि जहर्ष न ॥२९४ ॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्रज्ञतां विदन् । न व्यषीदन्न चाऽमावत, प्रज्ञोत्कर्षमुपागतः ॥ २९५ ॥ ज्ञान-चारित्रयुक्तोऽस्मि, च्छमस्थोऽहं तथापि हि । इत्यज्ञानं विषेहे स, ज्ञानस्य क्रमलाभवित् ॥२९६॥ जिनास्तदुक्तं जीवो वा, धर्माधौं भवान्तरम् । परोक्षत्वान्मृषा नैव, स मेने शुद्धदर्शनः ॥२९७।। शारीरान् मानसानेवं, स्वपरप्रेरितान् मुनिः । परीषहान् विषेहे स, वाकायमनसां वशी॥ २९८॥ ध्यानकतानः सततं, स्वामिनां श्रीमदर्हताम् । चक्रे चैत्यायमानं स, चेतः स्थिरतरं निजम् ।। २९९॥ सिद्धेषु गुरुषु बहुश्रुतेषु स्थविरेषु च । तपस्विषु श्रुतज्ञाने, सङ्घ चाऽभूत् स भक्तिमान् ॥ ३०॥ एवं च तीर्थकृत्कर्मोपार्जनान्यपराण्यपि । स्थानकानि सिषेवेऽसौ, दुर्लभान्यमहात्मनाम् ।। ३०१॥ तप एकावलिं रत्नावलिं च कनकावलिम् । सिंहनिःक्रीडितं ज्येष्ठं, कनिष्ठं च चकार सः॥३०२||* मासोपवासादारभ्य, स कर्तुं कर्मनिर्जराम् । अष्टमासोपवासान्तमुपवासतपो व्यधात् ॥ ३०३ ॥ पूर्वभवचरित प्रथमो विमक वाहनभवः। ॥१८६॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy