SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। श्रीविमलनाथचरित्रम् । MUSIROHOREOGRESEARCH ॐ नमो विमलनाथाय निष्कर्मविमलात्मने । धर्मखाख्याततागङ्गाप्रभवैकहिमाद्रये ॥१॥ त्रयोदशाहतस्तस्य चरित्रमिदमुच्यते । जगत्पवित्रीकरणं तीर्थोदकमिवामलम् ॥२॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः। भरताख्ये पुरीरत्नं नामतोऽस्ति महापुरी ॥३॥ तत्र पद्मागृहं पद्मसेनो नाम महीपतिः । अपां पतिरिवाँधृष्योऽभिगम्यश्चाभवद् गुणैः ॥४॥ खशासनमिवावन्यां स चित्ते जैनशासनम् । अखण्डप्रसरं चक्रे धुर्यो बलिविवेकिनाम् ॥ ५॥ दुर्वेश्मनीव संसारे सोऽमुष्मिन् निवसन्नपि । सदैव धारयामास वैराग्यमधिकाधिकम् ॥६॥ स एवं भवनिर्विण्णः सर्वगुप्ताभिधं गुरुम् । ययौ महीरुहवरं मार्गखिन्न इवाध्वगः ॥७॥ दीक्षां जग्राह तत्पाधै सम्यक् तां प्रत्यपालयत् । रोरो धनमिव प्राप्तमैनात्मज इवात्मजम् ॥ ८॥ अर्हद्भक्त्यादिभिः स्थानैर्यथाविधिनिषेवितैः । ऊर्जितैरर्जयामास तीर्थकृन्नाम कर्म सः॥९॥ चिरं तीनं तपस्तस्वा पूरयित्वाऽऽयुरात्मनः। मृत्वा कल्पे सहस्रारे महर्द्धिः सोऽमरोऽभवत् ॥१०॥ १ स्वाख्यातता-सुप्रसिद्धिः। २ कक्ष्मीस्थानम् । ३ अष्यः-अनभिभवनीयः। ४ अभिगम्यः-आश्रयणीयः। ५ निर्विण्णःखिनः । ६ दरिद्रः। ७ अपुत्रः। .. Jain Education Inter For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy