________________
चतुर्दशपूर्वभृतां सहस्रं द्वे शते तथा । अवधिज्ञानिनां पञ्च सहस्राः सचतु:शताः॥३५४॥ मनःपर्यययुक्तानामेकषष्टिः शतानि तु । षष्टिः शतानि विमलकेवलज्ञानशालिनाम् ॥ ३५५ ॥ जाता वैक्रियलब्धीनां सहस्राणि दशैव हि । वादलब्धिमतां सप्तचत्वारिंशच्छतानि तु ॥ ३५६ ।। श्रावकाणामुमे लक्षे सहस्रा दश पञ्च च । श्राविकाणां चतुर्लक्षी सपत्रिंशत्सहस्रिका ॥ ३५७ ।। चतुःपञ्चाशतं वर्षलक्षाणां मासवर्जितम् । आकेवलाद् विहरतः परिवारः प्रभोरभूत् ॥३५८॥ ज्ञात्वा च मोक्षमासन्नं ययौ चम्पां जगत्पतिः। प्रपेदेऽनशनं तत्र पइभिर्मुनिशतैः समम् ॥ ३५९।। मासान्ते चाषाढशुक्लचतुर्दश्यां निशाकरे । उत्तरभद्रपदास्थे सशिष्योऽगाच्छिवं विभुः॥३६॥ अष्टादशान्दलक्षाणि कुमारत्वे व्रते पुनः । चतुःपञ्चाशदित्यायुर्लक्षा द्वासप्ततिः प्रभोः॥३६१ ॥ श्रेयांसप्रभुनिवर्वाणाद् वासुपूज्यस्य निर्वृतिः। सागरेषु चतुःपश्चाशत्यतीतेष्वजायत ॥ ३६२ ॥ गीर्वाणेन्द्राः सगीर्वाणा निर्वाणमहिमोत्सवम् । स्वामिनः स्वामिशिष्याणामप्यकार्युर्यथाविधि ॥ ३६३ ॥ द्विपृष्ठवासुदेवोऽपि महारम्भपरिग्रहः । मृगारिरिव निःशङ्को देववच्च प्रमद्वरः॥३६४ ॥ भोगान् यथेच्छं भुञ्जामः पालयित्वायुरात्मनः। विपद्य षष्ठीमगमन्नरकोवीं तम प्रभाम् ॥ ३६५॥
॥युग्मम् ॥ द्विपृष्ठस्य कौमारेऽब्दलक्षं पादोनवर्जितम् । तदेव मण्डलीकत्वे दिग्जयेऽब्दशतं तथा ॥ ३६६॥ राज्ये सप्तत्यब्दलक्षी तथा नवशताधिका । वत्सरैकोनपञ्चाशत्सहस्रीत्यायुरूर्जितम् ॥ ३६७ ॥ १ सदेवाः।
श्रीवासुपूज्यजिनस्य निर्वा
णम्।
Jain Education
1281
For Private & Personal use only
www.jainelibrary.org.