SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व द्वितीय सर्गः श्रीवासु ॥३९५॥ चरितम् । गूथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिस्नानमात्रेण पापशुद्ध्यभिधायिनाम् ॥ ३३९॥ वटा-ऽश्वत्था-ऽऽमलक्यादिद्रुमपूजाविधायिनाम् । वहौ हुतेन हव्येन देवप्रीणनमानिनाम् ॥ ३४॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायव्रतधर्मोपदेशिनाम् ।। ३४१॥ जटापटल-भसाङ्गराग-कौपीनधारिणाम् । अर्क-धत्तूर-मालूरैर्देवपूजाविधायिनाम् ॥ ३४२ ॥ कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहुः। मुहुर्वदननादेनाऽऽतोद्यनादविनोदिनाम् ॥ ३४३॥ असभ्यभाषापूर्व च मुनीन् देवान् जनान् नताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ।।३४४॥ अनन्तकायकन्दादि-फल-मूल-दलाशिनाम् । कलत्र-पुत्रयुक्तानां वनवासजुषामपि ॥ ३४५॥ भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कोलाचार्यान्तवासिनाम् ॥३४६॥ अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क्व फलं तस्य तस्य स्वाख्यातता कथम् ॥ ३४७॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्ष प्रचक्ष्यते ॥ ३४८॥ सस्यहेतौ कृषौ यत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् ॥ ३४९ ॥ एवं तां देशनां श्रुत्वा भूयांसःप्राब्रजञ्जनाः। प्राप द्विपृष्ठः सम्यक्त्वं श्रावकत्वं च लागली ॥३५०॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्रभुः। द्वितीयां पौरुषी यावत् सूक्ष्मो गणधरो व्यधात् ॥३५१॥ ततः स्थानादथान्यत्र विजहार जगद्गुरुः । स्थानं निजनिजं जग्मुरिन्द्रोपेन्द्रबलादयः ॥ ३५२ ॥ द्वासप्ततिः सहस्राणि श्रमणानां महात्मनाम् । साध्वीनां लक्षमेकं तु संयमश्रीजुषां खलु ॥ ३५३ ॥ १ गूथम्-मलम्-विष्टा । २ पुतम्-नितम्बस्य विशेषभावः। * विधायिनाम् सं०॥ ३ अन्तवासिनः शिष्यछ। NAGAGALA%AA%AAS श्रीवासुपूज्य| जिनस्य परिवारादि। ॥३९५॥ Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy