SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व द्वितीयः सर्गः श्रीवासु त्रिषष्टि-18 अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा संविधवत्येकबन्धुर्धर्मोऽतिवत्सलः॥३१२॥ शलाका- आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः। यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलम् ॥३१३॥ पुरुषचरिते न ज्वलत्यनलस्तिर्यग् यदुवं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥ ३१४ ॥ महाकाव्ये निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥ ३१५॥ सूर्या-चन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥३१६॥ ॥३९४॥ अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वकवत्सलः ॥३१७ ॥ . धर्मो नरक-पातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥ ३१८॥ अयं दशविधो धर्मो मिथ्याग्भिन वीक्षितः। योऽपि कश्चित् क्वचित प्रोचे सोऽपि वाङ्मात्रनर्तनम् ॥३१९॥ तत्वार्थो वाचि सर्वेषां केषाञ्चन मनस्यपि । क्रियायामपि नर्नति नित्यं जिनमतस्पृशाम् ॥ ३२०॥ वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः। न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः ॥ ३२१ ॥ गोमेध-नरमेधा-ऽश्वमेधाद्यध्वरकारिणाम् । याज्ञिकानां कुतो धर्मः प्राणिघातविधायिनाम् ॥ ३२२॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥ ३२३॥ असद्भूतव्यवस्थाभिः परद्रव्यं जिघृक्षताम् । मृत्-पानीयादिभिः शौचं सार्तादीनां कुतो ननु ?॥३२४ ॥ सविधम्-समीपम् । * एतत्पद्यानन्तरं सं० प्रती पद्यमेतदधिकं विद्यते-"रक्षोयक्षोरगव्याघ्रव्यालानलगरादयः। नापकर्तुमलं तेभ्यो यैर्धर्मः शरणं श्रितः" ॥ २ कण्ठे सूत्रम्-यज्ञोपवीतरूपं धरन्ति ते-द्विजाः। ३ अध्वरः यज्ञः। द स्मृतिम्-मनुस्मृति-प्रभृति-स्मृतिशास्त्रम्-अनुसरन्ति ते मार्ताः । चरितम् । OSSERIALUS** ॥३९॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy