________________
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व द्वितीय: सर्ग:
श्रीवासु
॥३९३॥
चरितम् ।
ष्टिताभ्यों भगवा लाक्षणेतरौ । भर्तुः शासद शक्तिधारिणौ दधती २०७॥
माघशुक्ल द्वितीयायां चन्द्रे शतभिषग्जुषि । केवलज्ञानमुत्पेदे चतुर्थेन जिनेशितुः ॥ २८४॥
खामी दिव्ये च समवसरणे देशनां व्यधात् । सूक्ष्मादीनां गणभृतां षष्टिं षडधिकां तथा ॥२८५॥ तत्तीर्थभूः कुमाराख्यो यक्षो हंसरथः सितः । मातुलिङ्ग-शरधरौ धारयन् दक्षिणौ करौ ॥ २८६॥ वामौ च नकुलधनुर्धारिणौ धारयन् भुजौ । वासुपूज्यजिनेन्द्रस्याभवच्छासनदेवता ॥ २८७॥ . । तथोत्पन्ना श्यामवर्णा चन्द्रा नामाश्ववाहना । दक्षिणौ वरद-शक्तिधारिणौ दधती भुजौ ॥ २८८॥ पाणी पुष्प-गदायुक्तौ विभ्रती दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ २८९ ॥ ताभ्यामधिष्ठिताभ्यो भगवान् विहरन् भुवम् । द्वारकायाः परिसरभुवमन्येधुराययौ ॥२९॥ शक्राद्यैस्तत्र समवसरणं निर्ममेऽमरैः । चत्वारिंशद धनुरष्टशतोच्चाऽशोकपादपम् ।। २९१ ॥ तत्र प्रदक्षिणीकृत्याशोकं तीर्थानति वदन । सिंहासने निषसाद प्रामुखः परमेश्वरः ॥ २९२॥ प्रभोश्च प्रतिरूपाणि देवा दिक्ष्वपरावपि । विचक्रुस्त्रीणि तादृक्षाण्येवोच्चैस्तत्प्रभावतः॥ २९३ ॥ न्यषीदच्च यथास्थानं श्रीमान् संघश्चतुर्विधः । मध्यवप्रे तु तिर्यञ्चोऽधोवप्रे वाहनानि तु ॥ २९४ ॥ तदा च राजपुरुषा द्रुतमभ्येत्य शाणेि । खामिनं समवसृतमाचख्युः फुल्लचक्षुषः ॥२९५ ॥ सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यो ददौ हरिः। ययौ समवसरणं विजयेनान्वितस्ततः ॥ २९६ ॥ तत्र प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । आसाश्चक्रेऽनुशक्रं स समं लाङ्गलेपाणिना ॥ २९७ ॥
१ शतभिषग्नक्षत्रयुते । २ उपवासेन । ३ अभ्यर्णम्-समीपम् । ४ 'नमो तित्थस्स' इत्येवंरूपेण तीर्थप्रणामम् । ५ हलधरेण ।
श्रीवासुपूज्यजिनस्य समवसरणम्
थास्थानं श्रीमान्
समभ्येत्य शाङ्गिण हरिः । ययौ समास सम लालपा
खामिनं समवस्तवजयेनान्वितस्ततः ।
॥३९३॥
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org