________________
सद्यः सैन्यानि सेनान्यः सामन्ता मत्रिणोऽपि च । राजानो बद्धमुकुटाः सुभटाश्च महारथाः ॥ २४३॥ वीर्यकण्डूलदोर्दण्डाश्चिराय समरार्थिनः । सनाभयोऽन्तकस्येव राजानमुपतस्थिरे ॥२४४॥ महीकम्प-तडित्पात-कोकरोलादिभिभृशम् । सूच्यमानाशुभोदर्कोऽप्यचालीत् तारकस्ततः॥२४५॥ स प्रयाणैरविच्छिन्नैः क्रोधाध्मातोऽर्धचक्रभृत् । अर्धमार्गमलजिष्ट द्रापिष्टमपि हि द्रुतम् ॥ २४६ ॥ सब्रह्म-विजयाऽनीकस्तत्र तस्याग्रतोऽपि हि । द्विपृष्ठोऽप्याहवोत्कण्ठी कण्ठीरव इवाऽऽययौ ॥२४७॥ अङ्गोच्छासासकृत् त्रुट्यत्सर्वसन्नाहजालिकाः । द्वयोः संवर्मयामासुः सैनिकाः कथमप्यथ ॥ २४८॥ तयोरभूत संप्रहारो महासंहारकारणम् । मृत्योरभ्यवहाराय महानसगृहोपमः ॥२४९॥ निपेतुरुभयत्रापि लक्षशश्छत्रमौलयः । न संख्याऽप्यन्ययोद्धणां पतितानामबुध्यत ॥२५॥ पुण्डरीकवती छत्रैः पूरिता रक्तवारिभिः। रणभूरभवत् क्रीडाँवापी पितृपतेरिव ॥ २५१॥ जैत्रं रथमथारुह्य द्विपृष्ठः पर्यपूरयत् । पाञ्चजन्यं जन्यजयाह्वानमत्रोपमध्वनिम् ॥ २५२ ॥ सिंहनादादिव मृगा हंसा इव घनखनात् । पाञ्चजन्यध्वनेस्तारात् त्रेसुस्तारकसैनिकाः॥२५३ ॥ त्रस्तान् स्वसैनिकान् दृष्ट्वा हेपयित्वा निवर्त्य च । द्विपृष्ठं स्वयमभ्याट रथमारुह्य तारकः॥ २५४ ॥ विजयेनान्वीयमानो लाङ्गलाऽयोनधारिणा । शार्ङ्गमारोपयच्छाङ्गी सुत्रामेवर्जुरोहितम् ॥२५५ ॥
सबान्धवाः । २ काकरोलः 'काका' इति काकध्वनिः-भाषायाम्-'कागारोल' इति । ३ उदर्कः भविष्यन् परिणामः। दीर्घतमम् । ५ आहवः युदम् । ६ कण्ठीरवः सिंहः । संवर्मयामासुः-सन्नाहं चक्रुः । ८ अभ्यवहारो भोजनम् । ९महानसम्-रसवती
स्थानम् । १० यमस्य । ११ जन्यम्-युद्धम् । १२ तारम्-उपम्। १३ लजित्वा। १४ लागल-अयोप्रधारिणा, भयोन:-अहरणविशेषः । त्रिषष्टि.६७४
१५ सुत्रामा इव ऋजुरोहितम् इति पदविभागः । सुत्रामा-इन्द्रः 'ऋजुरोहितम्' धनुविशेषः।
**PROMOSSASSISTESS
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org.