SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये MSC48C ॥३९१॥ चरितम् । न चेत् प्रदास्यते तद् वः स वध्योऽनेन मन्तुना । नापवादो भवेल्लोके सापराधं निगृह्णताम् ॥ २२९॥ चतुर्थ पर्व याचितं दास्यते वाऽथ तदान्वेष्यं छलान्तरम् । सर्वोऽपि सापराधो हि छलमन्विष्यते यदा ॥ २३०॥ 18 द्वितीय साधु साध्वित्यमात्यं तमभिधाय तदैव हि । ब्रह्मणे प्राहिणोद् दूतं रेहः संदिश्य तारकः ॥ २३१॥ सर्गः आशु गत्वा द्वारवत्यां ब्रह्माणं सदसि स्थितम् । विजयेन द्विपृष्ठेन चान्वितं स उपास्थित ॥२३२॥ श्रीवासुप्रतिपच्या महत्या तमुपवेश्य स भूपतिः । चिरं सप्रेम चालप्य पप्रच्छाऽऽगमकारणम् ।। २३३॥ पूज्यसोऽप्यूचे द्वारकानाथ ! त्वां संप्रत्यादिशत्यदः । स्वामी नस्तारको वैरिबाहुदापहारकः ॥ २३४॥ राज्ये त्वदीये ये केपि प्रवराः करिणो हयाः। यानि चान्यानि रत्नानि प्रेष्यन्तां तानि नः कृते ॥२३५॥ दक्षिणे भरतार्धे हि वस्तु यत किश्चित्तमम् । भरतार्धाधीश्वरस्य तन्ममैवापरस्य न ॥ २३६॥ इत्युक्त्या कुपितः सद्यो मृगेन्द्र इव हक्कया। अभाषिष्ट द्विपृष्ठस्तं जिघत्सुरिव चक्षुषा ।। २३७॥ ज्यायान् वंश्यो न सोऽस्माकं त्राता दाता न चापि सः। राज्यं निजं शासतां नः कथं स्वामी बभूव सः॥ अथो मृगयतेऽमत्तो हस्त्यश्वादि भुजौजसा । भुजौजसा वयं तर्हि तेतोऽपि मृगयामहे ॥ २३९ ॥ गच्छ दूताधुनवामान् विद्धि तत्र समागतान् । हस्त्यश्वादि ग्रहीतुं त्वत्स्वामिनः शिरसा समम् ॥२४०॥ इत्युत्कटकटुं वाचं द्विपृष्ठस्य निशम्य सः। रुषितस्त्वरितं गत्वा तारकाय न्यवेदयत् ॥ २४१॥ इभगन्धेन गन्धेभ इव विष्णुगिरा तया । श्रुतया तारकः क्रुद्धो यात्राभम्भामवादयत् ।। २४२॥ १ मन्तुः-अपराधः । २ एकान्ते। * °स्त युयुत्सु सं०॥ ३ जिघत्सुः-खादितुमिच्छुः । ४ अमत्पार्धात् । ५ तत:तव स्वामितः। ६ याचामहे। गन्धप्रधानेन हस्तिना। ८ यात्राभम्भा-युद्धमेरिः। . Jain Education Intero l! For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy