SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ नीलपीताम्बरधरौ तौ ताल-गरुडध्वजौ । मेनाते तारकस्याज्ञां बालावपि च न क्वचित् ॥ २१६ ॥ आज्ञातिक्रमदोर्याधृष्यत्वादिकमेतयोः । दृष्ट्वा गत्वा तारकाय स्पशा स्पष्टमदोऽवदत् ॥ २१७॥ देव द्वारवतीभर्तुस्तनयावतिदुर्मदौ । आज्ञा तव न मन्येते वाय्वग्नी इव तौ युतौ ॥ २१८ ॥ कौशलं सर्वशस्त्रेषु विद्यानामपि सिद्धयः । उदपद्यन्त दोर्दण्डस्थामालङ्करणं तयोः॥ २१९ ।। न चैतौ प्रतिभासेते देव ! त्वां प्रति शोभनौ । अतः परं यदुचितं तदाचर चरोऽस्म्यहम् ॥ २२०॥ तारकः कोपतरल प्रस्फुरन्नेत्रतारकः । आदिक्षदिति सेनान्यमसामान्यपराक्रमम् ॥ २२१ ॥ सर्वात्मनापि सन्जित्वा पुरस्ताद् भट! वादय । प्रयाणभम्भामद्यैव सामन्ताहानदृतिकाम् ॥ २२२॥ निहन्तव्यः सपुत्रोऽपि जिलंधीब्रह्मभूपतिः । संजायते व्याधिरिव द्विषन् विषमुपेक्षितः ॥ २२३ ॥ अथैवं सचिवोऽवोचत् सम्यग्देवावधारय । अद्य यावत् स सामन्तः पत्तिा ब्रह्मभूपतिः ॥ २२४ ॥ विना मिषमकाण्डेऽपि यात्रा तं प्रति नोचिता । एवं ह्यन्यप्रकृतीनामपि शङ्काऽऽस्पदं भवेत् ॥ २२५ ॥ साशङ्के न हि विश्वासो विश्वासेन विना पुनः। मंत्रादेशादिकं नैव तद्विना स्वामितापि का? ॥२२६॥ कश्चिदुद्भाव्यतां तस्यापराधो व्यपदेशतः । सुलभः स हि दृप्तस्य तस्य पुत्रद्वयौजसः ॥ २२७॥ प्राणेभ्यो वल्लभीभृतान् करिणस्तुरगांश्च सः। याच्योऽन्यानि च रत्नानि प्रेष्य संदेशहारकम् ।। २२८॥ दूतः। * नान्यं महासेप-सं ॥°स्तादथ वा सं०॥ २ जिझम्-वक्रम् । त्तिो व्र सं०॥ ३निमित्तम् । ४ प्रकृतयः प्रधानादिराजमण्डलम् प्रजाश्च । ५ आशङ्कायुक्ते । ६ मन्त्रा-माणा आदेशः भाज्ञा । ७ निमित्ततः । ८ दूतम् । Jain Education Inter For Private & Personal use only Niwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy