________________
स तपो दस्तयं तेपे निदानं चाकरोदिति । विन्ध्यशक्तेर्वधायाह भैयासमपरे भवे ॥ १८७॥ तुषैरिव स माणिक्यं विक्रीयेत्थं महत् तपः। कृत्वान्तेऽनशनं मृत्वा चाभवत् प्राणते सुरः ॥ १८८॥ विन्ध्यशक्तिर्भवे भ्रान्त्वा चिरमेकत्र जन्मनि । जिनलिङ्गमुपादाय मृत्वा कल्पामरोऽभवत् ॥ १८९॥ च्युत्वा च विजयपुरे पत्यां श्रीधरभूपतेः। श्रीमत्यामजनि श्रीमाँस्तारको नाम दारकः ॥१९॥ स सप्ततिधनुस्तुङ्गः कजलश्यामलाकृतिः। द्विसप्तत्यब्दलक्षायुर्वभूवामितदोर्बलः ॥ १९१ ॥ सोऽन्ते पितुः प्राप चक्रं भरतार्धमसाधयत् । भवन्ति ह्यर्धभरतस्वामिनः प्रतिविष्णवः ॥ १९२ ॥ इतश्च द्वारका नाम सुराष्ट्रमुखमण्डनम् । पश्चिमाम्भोधिकल्लोलधौतवप्रतलाऽस्ति पूः ॥ १९३ ॥ अजिह्मविक्रमस्तस्यां विश्वामनिवारणः । जिष्णोः सब्रह्मचारीव ब्रह्मेत्यासीन्महीपतिः॥१९४ ॥ अन्तःपुरप्रधाने च तस्याभूतामुमे प्रिये । सुभद्रोमे गङ्गा-सिन्धू लवणाम्भोनिधेरिव ॥ १९५॥ प्रेयसीभ्यां समं ताभ्यां चिरं वैषयिकं सुखम् । ब्रह्माऽन्वभृत् सुष्ट रति-प्रीतिभ्यामिव मन्मथः ॥१९६।। इतश्च पवनवेगजीवोऽनुत्तरतश्युतः । महादेव्याः सुभद्राया उदरे समवातरत् ॥ १९७॥ सुखसुप्ता तदानीं च सुभद्रा देव्युदैवत । हलभृजन्मशंसित्री महाखमचतुष्टयीम् ॥ १९८॥ पुण्डरीकमिव गङ्गा प्राचीव तुहिनॆद्युतिम् । समयेऽसूत सा सूनुं स्फटिकोपलनिर्मलम् ॥ १९९॥ कारामोक्षादिना यच्छञ्जगतोऽपि परां मुदम् । सूनोविजय इत्याख्यामकार्षीद् ब्रह्मभूपतिः ॥२०॥ विभिन्नकर्मायुक्ताभिर्धात्रीभिः सोऽथ पञ्चभिः । लाल्यमानो ययौ वृद्धि सहैव स्ववपुःश्रिया ॥२०१॥
१ भवेयम् इत्यर्थः। २ 'तुष' इति-भाषायाम्-'ढुंसां-फोफां'। ३ विश्व-आक्रमण-निवारकः । ४ तुहिनधुतिः-चन्द्रः । ५ कारा-कारागृहम्, 'केद' इति भाषायाम् ।
Jain Education
Manal
For Private & Personal use only
www.jainelibrary.org.