SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ RECASSESSASSES पर्वतकव्यतिकरं तं व्याचख्यावशेषतः । हुताहुतिरिवार्चिष्मान् क्रुधा जज्वाल तत्प्रभुः॥१६२॥ मैत्री चिरभवां लुप्या मर्यादामिव सागरः। विन्ध्यशक्तिश्चचालाडेभिपर्वतं गर्वपर्वतः॥१६३॥ पर्वतोऽप्याजगामाभिमुखं स्वबलवाहनः। शूराणां ह्यभिगमनं सुहृदीवासुहृद्यपि ॥ १६४॥ द्वयोरप्यग्रसैन्यानां युद्धं प्रववृते ततः । चिराद् दोर्दण्डकण्डूतिरुजाऽपनयनौषधम् ॥ १६५॥ अभ्यसर्पन्नवासर्पन सैन्ययोरुभयोरपि । भटाः परस्परं वेदियोधिनो द्विरदा इव ॥ १६६ ॥ कुन्तप्रोतोऽपि 'हकुर्वन् कश्चिदस्खलितं भटः । तन्तुप्रोतो मणिरिव संचचाराभिवैरिणम् ॥ १६७॥ धनुर्धरवरोन्मुक्तनिरन्तरशरैरभूत् । अभिलूनशरवणारण्यभूरिख युद्धभूः ॥१६८॥ पतद्भिः परिधैः शल्यैर्गदाभिर्मुद्गरैरपि । सपैरिव परप्राणहरैानशिरे दिशः॥ १६९ ॥ इतः क्षणं क्षणमितः सैन्ययोरुभयोरपि । जयः समोऽभवज्योत्स्नाप्रसरः पंक्षयोरिव ॥ १७ ॥ अथ सर्वाभिसारेण धनुरास्फालयन् स्वयम् । रथारूढः पर्वतकः समरायोदतिष्ठतें ॥ १७१ ॥ युगपद्घाणवर्षेण परसैन्यं तिरोदधे । अन्तरिक्षमिवानीकप्रोत्खातावनिपांसुभिः ॥१७२ ॥ केसरीवेभयूथेषु परसैन्येषु स क्षणात् । महान्तं प्रलयं चक्रे कृतान्तस्येव भोजनम् ॥ १७३ ॥ हुता आहुतिः यस्मिन् । २ पर्वतसंमुखम् । * 'खं सब सं० । ३ कण्डूतिरुजा-भाषायाम् 'चळखंजवाल' । ४ वेदिः परिष्कृता भूमिः तस्यां योधिनः। ५ सर्वतः छिन्नम्-अभिलूनम् । ६ शुक्ल-कृष्णपक्षयोः। ७ समराय युद्धाय, उदतिष्ठत-उत्थितः-सज्जो जातः। ८ अनीकेन सैन्येन प्रोत्खाताभिः 'ऊखेडेली-ऊडाडेली' भवनिधूलिभिः। ९ 'केसरी इव इभइति विभागः। Jain Education in DI IRI For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy