SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥३८॥ चतुर्थ पर्व द्वितीय: सर्ग: श्रीवासु पूज्य चरितम् । OGROGOROUGHOSHARRIS Hoteles नारीषु रत्नभृता सा देवस्यैव हि युज्यते । युवयोरुचितो योगः स्वर्णमण्योरिवास्तु तत् ॥१४८॥ भोज्येनालवणेनेव मुखेनेवापचक्षुषा । अचन्द्रया रजन्येव किं ते राज्येन तां विना ॥ १४९॥ इत्याकर्ण्य वचो राजा याचितुं गुणमञ्जरीम् । उपपर्वतकं प्रैपीन्मत्रिणं दूतकर्मणा ॥ १५०॥ जङ्घालैर्वाहनैव्योम तरद्भिरिव रंहसा । गत्वा स साकेतपुरं नृपं पर्वतमभ्यधात् ॥ १५१॥ नान्यस्त्वत्तो विन्ध्यशक्तिस्तस्मात् त्वमपि नापरः। द्वयोरभेद एवेह वार्धिकल्लोलजालवत् ॥ १५२॥ द्वयोरप्येक एवात्मा विभिन्ने वपुषी परम् । त्वदीयं यत् तदीयं तत् तदीयमपि तावकम् ॥ १५३ ॥ तव , स्तूयते वेश्या नामतो गुणमञ्जरी । स्वान्तिकं विन्ध्यशक्तिस्तामानाययति कौतुकात् ॥१५४॥ सा स्वबन्धोः स्वतुल्यस्य याचमानस्य दीयताम् । दाने साधारणस्त्रीणां ग्रहणे च न गर्हणा ॥ १५५ ॥ इत्युक्तो मत्रिणा तेन यष्टिस्पृष्ट इवोरगः । कोपकम्प्राधरदलोऽवदत पर्वतकोऽप्यदः ॥ १५६ ।। उच्यते स कथं बन्धुर्विन्ध्यशक्तिर्दुराशयः। प्राणेभ्योऽपि प्रियां यो मे याचते गुणमञ्जरीम् ॥१५७॥ मुहूर्तमपि न स्थातुं विना यामलमस्म्यहम् । तां तेनादित्सुना प्राणा अप्युपादित्सिता मम ॥ १५८॥ दासीमपि न दास्यामि किं पुनर्गुणमञ्जरीम् । अस्तु मित्रममित्रो वा विन्ध्यशक्तिः स्वशक्तितः॥१५९॥ उत्तिष्ठ गच्छ वं तस्मै गत्वाऽऽख्याहि यथातथम् । राज्ञां भवन्ति दूता हि यथावस्थितवादिनः॥१६०॥ उत्थाय सोऽपि सचिवः सोचिविक्षिप्तलोचनः। आरुह्य वाहनान्यागाद् विन्ध्यशक्तेरथान्तिकम् ॥१६॥ पर्वतनृपसमीपम् । २ द्रुतगतिभिः । *च श्रूयते सं०॥ ३ आदित्सुः-प्रहीतुमिच्छुः । ४ उपादित्सिताः प्रहीतुमिच्छाविषयीकृताः। ५ साचिः-तिर्यक्-बक्रम् । ॥३८८॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy