SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ मिथः संसृजतोस्तस्य कोदण्डभुजदण्डयोः । प्रचुक्षुभुभूमिभुजो ग्रहयोः क्रूरयोरिव ॥ १३४ ॥ नितान्ताऽऽरक्तया क्रूरभ्रकुटीभङ्गभीमया। गिलन्निव स दृष्ट्याऽपि नश्यद्भिर्ददृशेऽरिभिः ॥ १३५॥ . शिश्रिये सोऽरिभिरपि निजजीवितकाम्यया। तेऽदुश्च दण्डे सर्वखं प्राणान् रक्षेद् धनैरपि ॥ १३६ ॥ एकदा सर्वसामन्तामात्यायैः परिवारितः । स आस्थान्यामुपाविक्षत् सुधर्मायामिवाद्रिभित् ॥ १३७॥ आजगाम चरश्चैको वेत्रिणा च प्रवेशितः । नमस्कृत्योपविश्याग्रे व्यजिज्ञपदिदं शनैः ॥ १३८॥ जानासि देव! यदिह भरतार्धेऽस्ति दक्षिणे । लक्ष्मीनिधानं साकेतमिति नाना महापुरम् ॥ १३९ ॥ आर्षभेरिव सेनानीः प्रभूतबलसंपदा । पर्वतो नाम तत्रास्ति महाबाहुर्महीपतिः ॥१४॥ खरूपेणोर्वशी-रम्भापराभवनिबन्धनम् । धनं रतिपतेस्तस्य वेश्याऽस्ति गुणमञ्जरी ॥ १४१॥ तस्या वदननिर्माणावशिष्टैः परमाणुभिः । विदधे वेधसा मन्ये पूर्णिमारजनीकरः ॥१४२॥ किमस्मदधिकं हन्त ! लावण्यं क्वापि शुश्रुवे । इति प्रष्टुमिव दृशौ तस्याः कर्णावुपेयतुः॥१४३ ॥ तस्या वक्षसि वक्षोजौ तथा वैशाल्यशालिनौ । यथा तयोरुपमानं तावेव हि न चापरम् ॥ १४४॥ मध्यं चातिकृशं तस्याः सहवासोत्थसौहृदात । समर्पितपरीणाहमिवोचैः स्तनकुम्भयोः ॥१४५॥ पाणी पादौ च रेजाते तस्या रोजीवकोमलौ । कैङ्केल्लिपल्लवायासकारिणौ रागसंपदा ॥ १४६ ॥ सा गीते कलकण्ठीव नृत्ते स्वयमिवोर्वशी। वीणावाद्ये च मधुरे तुम्वुरोरिव सोदरा ॥ १४७॥ १ सभायाम् । २ इन्द्रः। ३ ऋषभपुत्रस्य भरतस्य सेनानीः इव । ४ परीणाहो विस्तारः। ५ राजीवम्-कमलम् । * ककिल्लिप सं०॥ कङ्केलि:-अशोकतरुः। ६ तुम्बुरुः गानकलानिपुणतमो गायकजातिविशेषः। Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy