SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व द्वितीय: सर्गः श्रीवासु ॥३८७॥ चरितम् । उत्फुल्लसुमनोभूरिभाराऽऽनमितमूर्धभिः। कर्णिकारैरुपक्रान्तनमस्कार इवाधिकम् ॥ १२० ॥ पुष्पाभरणरम्याभिलौलपल्लवपाणिभिः । वासन्तीभिः प्रमोदेनारब्धनृत्य इवाग्रतः॥१२१॥ शोभाविशेष जनयल्लता-पादप-वीरुधाम् । प्रविवेश तदुद्यानं स्वामी मधुरिवापरः ॥ १२२॥ ॥सप्तभिः कुलकम् ॥ शिविकातस्तदोत्तीर्य स्वामी स्रग्भूषणादिकम् । मुमोच फाल्गुने मासि पत्राणीव महीरुहः ॥ १२३॥ इन्द्रन्यस्तं देवदृष्यं स्कन्धदेशे समुद्वहन् । चतुर्थेन पञ्चमुष्टिकेशोत्पाटनपूर्वकम् ॥ १२४॥ फाल्गुनस्यामावास्यायां वारुणे मेऽपरेऽहनि । राज्ञां पभिः शतैः साधे प्रावाजीत् परमेश्वरः॥१२५॥ युग्मम् ।। सुरासुरनराधीशा नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुर्दानान्ते याचका इव ॥ १२६ ॥ महापुरे द्वितीयेऽह्नि सुनन्दनृपसबनि । चकार परमानेन पारणं परमेश्वरः॥ १२७॥ देवैश्च विदधे दिव्यवसुधारादिपञ्चकम् । रत्नपीठं सुनन्देन चाजिस्थाने जगद्गुरोः॥१२८॥ ततः स्थानादथान्येषु ग्रामा-ऽऽकर-पुरादिषु । प्रावर्तिष्ट विहाराय समीरण इव प्रभुः ॥ १२९॥ ___ इतश्च नगरे पृथ्वीपुरे नृपशिरोमणिः । नाम्ना पवनवेगोऽभूद् भुवं सोऽन्वैशिषचिरम् ॥ १३०॥ पार्श्वे श्रवणसिंहर्षेरादाय समये व्रतम् । दुस्तपं स तपस्तवा विपद्यागादनुत्तरे ॥१३१ ।। इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र दक्षिणे । पुरं विन्ध्यपुरं नामास्त्यवन्ध्यं सर्वसंपदाम् ॥१३२॥ तत्र नाम्ना विन्ध्यशक्तिर्विन्ध्याद्रिरिव सारतः । आसीनृपतिशार्दूल: शत्रुतूलमहानिलः ॥ १३३ ॥ ... वसन्तः। २ शशास । ३ सारो बलम् । ४ तूलम्-भाषायाम्-'रू' इति । ॥३८७॥ Jain Education into For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy