SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ लालनलालसैः। विलास खर्णाम्भोरुहोलापताम् ॥११॥ वालवृन्तधरैः कै PUISIES GESCHOSS GROSS ते त्रिः प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । इति विज्ञपयामासुः स्वामिन् ! तीर्थ प्रवर्तय ॥१०८॥ एवं विज्ञप्य यातेषु तेषु कल्पं निजं पुनः । अदत्त वार्षिकं दानमवदानपरः प्रभुः ॥१०९॥ तदानान्तेऽभ्येत्य दीक्षाभिषेकोत्सवमीशितुः । इन्द्राश्चक्रुः प्रावृडन्त इन्द्रोत्सवमिव पंजाः ॥११॥ ततश्च पृथिवीं नाम सुरा-ऽसुर-नरैः कृताम् । समारुरोह शिविकां सिंहासनविभूषिताम् ॥ १११॥ तत्राङिपीठन्यस्ताजिमणिसिंहासनस्थितः । राजहंस इव स्वर्णाम्भोरुहोत्सङ्गमास्थितः॥११२॥ कैश्चिदग्रस्थितैः खखशस्त्रोल्लोलनलालसैः । दिव्यच्छत्रकरैः कैश्चित कैश्चिच्चामरधारिभिः॥११३ ॥ तालवृन्तधरैः कैश्चित् कैश्चिचामरधारिभिः । पुष्पदामधरैः कैश्चिद् वासवैः परिवारितः॥११४ ॥ अमरैरसुरैर्मत्यैः सेव्यमानो जगत्पतिः। विहारगृहमित्युच्चैर्ययावथ वनोत्तमम् ॥ ११५॥ ॥ चतुर्भिः कलापकम् ॥ चूताङ्कुराखादहृष्टैः परपुष्टैः कलखनैः । प्रस्तूयमानस्तवन इव भक्तिप्रकर्षतः ॥ ११६ ॥ अनिलान्दोलनस्रस्तकुसुमस्तबकच्छलात् । प्रदीयमानाघ इव प्रेत्यग्राशोकपादपैः ॥ ११७ ॥ उच्छलच्चम्पकाशोकमकरन्दापदेर्शतः । पादार्चाय ढोक्यमानपाद्योदक इवामरैः॥ ११८॥ अमन्दलवलीपुष्पमधुपानोन्मदिष्णुभिः । रोलम्बललनावृन्दैः कृतोलूलुंरिवोच्चकैः ॥ ११९ ॥ *°ल्यं जिनः पु सं०॥ १ अवदानम्-पराक्रमः। 1 प्रभोः सं० ॥ २ उत्सङ्ग:-क्रोडः। ३ उल्लालनम्-भाषायाम्'उलालq "श्चित स्तवनकारिभिः। सं०॥ ४ कोकिलैः। ५ प्रत्यग्रः नवीनः । ६ अपदेशत:-मिषतः। पादाचान्त्यै ढी सं०॥ ७ रोलम्बो भ्रमरः । कृतोल्लास इवो-सं०॥ ८ उलूलुः मङ्गलध्वनिः । Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy