SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥१८५॥ Jain Education Inter सुरत्वं दारिद्र्यं प्राणिनां तावन्न यावत् कल्पपादपः । भविनां भवभीस्तावद् यावन्नैवाऽऽप्यते व्रतम् ॥ २५९ ॥ द्वितीयं पर्व आरोग्यं रूपलावण्ये, दीर्घायुष्यं महर्द्धिता । आज्ञैश्वर्यं प्रतापित्वं, साम्राज्यं चक्रवर्तिता ॥ २६० ॥ सामानिकत्वमिन्द्रत्वमहमिन्द्रता | सिद्धत्वं तीर्थनाथत्वं, सर्व व्रतफलं ह्यदः ॥ २६१ ॥ एकाहमपि निर्मोहः, प्रत्रज्यापरिपालकः । न चेन्मोक्षमवाप्नोति, तथापि स्वर्गभाग् भवेत् ॥ २६२ ॥ किं पुनः स महाभागस्त्यक्त्वा तृणमिव श्रियम् । यो गृह्णाति परिव्रज्यां, सुचिरं पालयत्यपि ।। २६३ ।। विधाय देशनामेवमरिन्दममहामुनिः । विहर्तुमन्यतोऽचालीत्, तिष्ठन्त्येकत्र नर्षयः ॥ २६४ ॥ ततो ग्राम-पुरारण्याकर-द्रोणमुखादिषु । स व्यहार्षीदविच्छिन्नं, छायेव गुरुणा सह ॥ २६५ ॥ लोकाक्रान्तेऽर्कभास्पृष्टे, जन्तुरक्षाकृते पथि । युगमात्रदत्तदृष्टिः, सोऽगादीर्याविचक्षणः ॥ २६६ ॥ निरवद्यां मितां सर्वजनीनां भारतीं च सः । महामुनिरभाषिष्ट, भाषासमितिकोविदः ॥ २६७ ॥ द्विचत्वारिंशता भिक्षादोषैरपरिदूषितम् । पारणेष्वाददे पिण्डमेषणानिपुणो हि सः ।। २६८ ॥ आसनादीनि संवीक्ष्य, यत्नतः प्रतिलिख्य च । अग्रहीन्यक्षिपच्चाऽपि स औदानविशारदः ।। २६९ ।। कफ-मूत्र - मलप्रायं, निर्जन्तुजगतीतले । उत्ससर्ज महासाधुः, स प्राणिकरुणापरः ॥ २७० ॥ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । स गुणक्ष्मारुहाराम, आत्मारामं मनो व्यधात् ॥ २७९ ॥ मौन तस्थौ स प्रायः संज्ञादिपरिहारतः । अनुग्राह्योपरोधेन यद्यवोचत् तदा मितम् ॥ २७२ ॥ स्तम्भबुद्धया महिषाद्यैः, स्कन्धकण्डूयनेच्छुभिः । बाढमुद्धृष्यमाणोऽपि, कायोत्सर्ग जहौ न सः ॥ २७३ ॥ १ सूर्यकिरणैः स्पृष्टे । २ सर्वजनहिताम् । ३ आदाननिक्षेपणासमितिविशारदः । ४ गुणवृक्षोद्यानः । For Private & Personal Use Only प्रथमः सर्गः अजित नाथ चरितम् । पूर्वभवचरिते प्रथमो विमल वाहनभवः । ॥१८५॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy