SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern एवं जिनपतिं स्तुत्वा गृहीत्वा च दिवस्पतिः । गत्वा पार्श्वे जयादेव्या मुमोच प्रणनाम च ॥ ५३ ॥ हृत्वाऽपखापन देव्यास्तच्चार्हत्प्रतिरूपकम् । ततो द्यां प्रययौ शक्रो मेरुतोऽन्ये तु वासवाः ॥ ५४ ॥ उत्सवं वसुपूज्योऽपि चक्रे सूर्य इवोदयम् । चेतांसि कमलानीव जगतोऽपि विकासयन् ।। ५५ ।। वसुपूज्य- जयादेव्यौ वासुपूज्य इति स्वयम् । यथार्थं नाम चक्राते शुभेऽहनि जगत्पतेः ॥ ५६ ॥ शक्रसंक्रमिताङ्गुष्ठसुधया स्वाम्यवर्धत । धात्र्योऽन्यकर्मभिर्धात्र्योऽर्हतां न स्तन्यदा यतः ५७ ॥ पञ्चभिर्वासवादिष्टधात्रीभिः परमेश्वरः । छायावत् संहयात्रीभिर्लाल्यमानो व्यवर्धत ॥ ५८ ॥ रत्नस्वर्णमयैर्दिव्यैः कदाचिदपि गेन्दुकैः । शङ्कुलाभिर्वज्ररत्नसंकुलाभिः कदाचन ॥ ५९ ॥ कदाचिच्च भ्रमरकै भ्रमिभिर्भ्रमरैरिव । कदाऽप्यामलकी वृक्षारोहणैः सर्पणं मिथः ॥ ६० ॥ कदाचिद् वेगयाने नान्तर्धानेन कदाचन । कदाचित् फालदानेन कदाऽप्युत्पतनेन च ॥ ६१ ॥ कदाचिद् वारितरणैः सिंहनादैः कदाचन । कदाचिन्मुष्टियुद्धेन निर्युद्धेन कदाचन ॥ ६२ ॥ आगतैः सवयोभूय देवासुरकुमारकैः । बाल्योचितं प्रभुः क्रीडन् व्यत्यलङ्घिष्ट शैशवम् ॥ ६३ ॥ पञ्चभिः कुलकम् ॥ प्रपेदे यौवनं प्रभुः ॥ ६४ ॥ स सप्ततिधनुस्तुङ्गः सर्वलक्षणलक्षितः । मृगीदृशां संर्वननं १ धाग्यो मातरः । * दानतः सं० । २ सहनिवासाभिः । 'सांकल' इति भवेत् । ५ भ्रमरका :- 'भमरडा' इति भाषायाम् । ७ अन्तर्धानम् - भाषायाम् 'संताई जतुं' - 'संताकूकडी' नामनी रमत । ३ गेन्दुकाः -- भाषायाम् 'गेंद - दडा' इति । ४ शकुलाः ६ पण:- प्रतिज्ञावाक्यम्, 'होड-शरत' इति भाषायाम् । ८ बाहुयुद्धेन । ९ वशीकरणम् । For Private & Personal Use Only ww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy