SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ पवित्रं धारयामास हृदि सर्वज्ञशासनम् । श्रीवत्समिव शश्वत् स वत्सलो धर्मशालिषु ॥२४॥ खान्ववायसरोहंसी रतिरूपविजित्वरी । जया नाम महादेवी तस्यासीत् प्रीतिभाजनम् ॥२५॥ सा जाह्नवीव गम्भीरा वक्रमन्थरगामिनी । पूर्वाम्भोधिमिवास्तापं वसुपूज्यमनोविशत् ॥ २६ ॥ सद्भक्या परमात्मेव शुद्धस्फटिकनिर्मले । वसुपूज्यनृपोऽप्यस्याः सदा चेतस्यवर्तत ॥ २७॥ रूपेण लवणिम्ना च गुणैस्तैश्चानुरूपयोः । तयोविलसतोः कालः कोऽप्यद्वैतसुखो ययौ ॥२८॥ इतः कल्पे प्राणताख्ये पद्मोत्तरमहीपतेः। जीवः स्वमायुरुत्कृष्टं सुखमनोऽत्यवाहयत् ॥ २९॥ ज्येष्ठस्य शुद्धनवम्यां चन्द्रे शतभिषग्गते । स च्युत्वा प्राणताजीवो जयाकुक्षाववातरत् ॥ ३०॥ ईक्षाञ्चके तदानीं च तीर्थजन्मसूचकान् । सुखसुप्ता जयादेवी महास्वमांश्चतुर्दश ॥ ३१॥ मृगाङ्कमभ्रलेखेवाद्रिगुहेव मृगाधिपम् । तं गर्भ धारयामास जया खामिन्यनुत्तमम् ॥ ३२॥ फाल्गुनश्याम तेष्टातिथौ भेऽपि च वारुणे । रक्तवर्ण महिपाई साऽसूत समये सुतम् ॥ ३३ ॥ संजातासनकम्पाः षट्पञ्चाशद्दिकुमारिकाः। स्वामिनः स्वामिमातुश्च सूतिकमैत्य चक्रिरे ॥३४॥ शक्रोऽपि पालकारूढस्तत्रैत्य सपरिच्छदः । स्वामिवत् स्वामिभवनं प्रदक्षिण्यकरोद् द्रुतम् ॥ ३५ ॥ तत् प्रविश्य जयादेव्या दत्त्वाऽपस्वापनी हरिः । पार्श्वेऽर्हत्प्रतिविम्बं च न्यस्याभूत् पञ्चमूर्तिकः ॥ ३६ ॥ मूत्यैकयाऽग्रहीन्नाथमातपत्रमथान्यया । द्वाभ्यां तु चमरे वगैनन्यया तु पुरो ययौ ॥ ३७॥ *धर्मशीलि मु०॥ 1 स्याभूत सं०॥१वक्रम्, मन्धरम्-मन्द मन्दम् । २ अस्ताघम्-भाषायाम् 'अथाग' इति । देवी देवी व सं०॥ ३"भूतेष्टा तु चतुर्दशी"-अभिधानचिन्ता. कां. २ श्लो०६५। ४ वल्गन् धेगेन गच्छन् । वासुपूज्यजिनजन्मोत्सव वर्णनम् । Jain Education inte For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy