________________
द्वितीयः सर्गः। श्रीवासुपूज्यचरितम् ।
+
नमः श्रीवासुपूज्याय विश्वपूज्याय तायिने । इन्द्रोपेन्द्रकिरीटाघृष्टाडिनखपतये ॥१॥ अर्हन्तमिव रूपस्थध्यानस्थो विश्वपावनम् । वक्ष्यामि तस्य चरितं चन्द्रादप्यतिनिर्मलम् ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहविभूषणे । विजये' मङ्गलावत्यामस्ति पू रत्नरश्चया ॥३॥ तस्यां पद्मोत्तरो नाम विश्वपद्मोत्तरः सदा । बभूव राजा रजनीराजराजेव वल्लभः॥४॥ अधारयन् मनसि स जैनं शासनमुज्वलम् । तदीयमिव राजानो नित्यं शिरसि भक्तितः॥५॥ . तस्य लक्ष्मीश्च कीर्तिश्च गुणानामेकवेश्मनः । युग्मजाते इव भृशं ववृधाते सहैव हि ॥६॥ पृथ्वी समुद्रसंव्यानां पृथ्वीपतिशिरोमणिः । परिखामेखलामेकपुरीमिव शशास सः ॥७॥ चपलाचपला लक्ष्मीर्वयोवद् गत्वरं वपुः । पद्मदलानोदबिंदुवच्च पुण्यं विनश्वरम् ॥८॥ विश्लेषिणो बन्धवोऽपि मार्गसंपृक्तपान्थवत् । इत्यजस्रं भावयन् स भववैराग्यमासदत् ॥ ९॥ युग्मम् ॥ वज्रनाभगुरोः पादमूले गत्वा महामनाः । अन्येधुराददे दीक्षां मुक्तिश्रीप्राप्तिदूतिकाम् ॥१०॥
* अमृष्टांहि सं० का०॥ ये पुष्कलाव सं०॥ समग्रलक्ष्म्या उत्तमः। नीजानिवज्जनवल्लभः सं० का०॥ समुद्रवस्त्राम् । इणिः । सो परिखामेक सं०॥ ३ चपला-विधुत्, चपला-चका। वियोगिनः ।
Jain Education Inter
For Private & Personal use only
Alwww.jainelibrary.org