SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमः सर्गः ॥३८२॥ श्रेयांसजिनचरितम्। महाटव्यामिवोद्याने श्मशान इव वेश्मनि । गृहस्रोतःविव क्रीडासरःस्रोतस्विनीष्वपि ॥ ९००॥ अपि बन्धुसमाजेषु वैरिवृन्देष्विवानिशम् । न रतिं बलभद्रोज्गादल्पवारिणि मत्स्यवत् ॥९०१॥ युग्मम् ॥ श्रेयांसवामिपादानां स्मरन् श्रेयस्करी गिरम् । संसारासारतां ध्यायन् विषयेभ्यः परामुखः ॥९०२॥ वजनानापरोधात स्थित्वाहानि च कानिचित । ययौ बलो धर्मघोषाचार्यपादान्तमन्यदा॥९०३।। युग्मम्॥ शुश्राव देशनां तस्मादर्हद्वागनुवादिनीम् । विशेषाद् भवनिर्वेदैमाससाद तयां बलः॥९०४॥ सद्यो जग्राह दीक्षां च तत्पादान्ते स शुद्धधीः । अनुष्ठाने प्रवर्तन्ते ज्ञात्वा खलु महाशयाः ॥९०५॥ स सम्यक् पालयन् मूलगुणोत्तरगुणान् गुणी । सर्वत्र समतां विभ्रत् सहमानः परीषहान् ॥ ९०६ ॥ वायुरिवाप्रतिबद्धो भुजङ्गम इवैकदृक् । कश्चित् कालं विजहार ग्रामा-ऽऽकर-पुरादिषु ॥९०७॥ युग्मम् ॥ अथाब्दलक्षाण्यतिवाह्य पश्चाशीति निसर्गामलचित्तवृत्तिः। कर्माणि सर्वाण्यपि घातयित्वा प्रापाचलः सिद्धिपदे निवासम् ॥९०८॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीश्रेयांसजिनत्रिपृष्ठाचलाश्वग्रीवचरितवर्णनो नाम प्रथमः सर्गः संपूर्णः॥ ॥३८२॥ * °व सुखं क्रीडास्रोत° सं०॥ आमहात् । २ वैराग्यम् । तयाचलः सं० ॥ * "र्णः। ६००० सं० का०॥ Jain Education Intel le For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy