SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ प्राणातिपाते निःशको महारम्भपरिग्रहः । क्रूरेणाध्यवसायेन शीर्णसम्यक्त्वभूषणः ॥ ८८५॥ नारकायुर्निबध्याब्दलक्षाशीतिं चतुर्युताम् । अतीत्यायुस्त्रिपृष्ठोऽगात् सप्तमी नरकावनिम् ॥ ८८६॥ तत्रावासे प्रतिष्ठाने पञ्चधन्वशतोन्नतः । त्रयस्त्रिंशत्सागरायुः सोऽपश्यत् कर्मणां फलम् ॥ ८८७॥ त्रिपृष्ठस्याब्दसाहस्राः कौमारे पञ्चविंशतिः । तावन्तो मण्डलीकत्वेऽब्दसाहस्रं च दिग्जये ।।८८८ ॥ त्र्यशीतिवर्षलक्ष्येकोनपश्चाशत्सहस्रयुक् । राज्ये चेति चतुरशीत्यब्दलक्षायुपो मितिः ॥ ८८९ ॥ अथाचलोऽपि शोकेन भ्रातृपञ्चत्वजन्मना । पराबभूवे सद्यः वर्भानुना भानुमानिव ॥ ८९० ॥ विवेक्यप्यविवेकीव भ्रातृस्नेहवशादथ । करुणखरमित्युच्चैर्विललाप हलायुधः ॥ ८९१ ॥ उत्तिष्ठ बन्धो ! निर्बन्धः कोऽयं शयनकर्मणि । अदृष्टपूर्वमालस्यं किं नृसिंहस्य तेऽधुना ॥ ८९२ ॥ द्वारि भूपतयः सर्वे त्वत्पादान द्रष्टमुत्सुकाः । अदर्शनानाप्रसादस्तेषु युक्तस्तपस्विषु ।। ८९३ ॥ क्रीडयापि न ते मौनमियद् बान्धव ! युज्यते । भृज्यते हृदयं त्वद्वाक्सुधासारं विना मम ॥ ८९४ ॥ महोत्साहस्य सततं गुरुभक्तस्य वत्स! ते । निद्रा च मदवज्ञा च न संभवति सर्वथा ॥ ८९५ ॥ हा! हतोऽस्म्युग्रविधिना किमापतितमस्य मे । इति क्रन्दन महीपृष्ठे मुशेली मूञ्छितोऽपतत् ॥ ८९६॥ लब्धसंज्ञः क्षणेनापि समुत्थाय च लागली । हा! भ्राततरित्युच्चैः क्रन्दन्नथेऽग्रहीद्धरिम् ॥ ८९७ ॥ वृद्धैः प्रबोधितः सोऽथ धैर्यमालम्ब्य च क्षणम । अनुजस्याङ्गसंस्कारादिकं कर्म समापयत् ॥ ८९८॥ कृतोर्ध्वदेहिको भ्रातुः सरणेन मुहुर्मुहुः । मुमोच लोचनैर्वारि श्रावणाम्भोदवद् बलः ॥ ८९९ ॥ १ वर्षलक्षी+एकोन इति विभागः। २ स्वर्भानुः-राहुः। ३ आग्रहः। ४ भृज्यते-पच्यते-दह्यते । ५ बलदेवः। JainEducationa l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy