________________
चतुर्थ पर्व प्रथमः
सर्गः
श्रेयांस
चरितम् ।
अन्यदा तु विभावयां विष्णोस्तल्पे निषेदुषः। तैस्तारं गातुमारेभे गन्धर्वैरिव वज्रिणः॥ ८७१॥ त्रिषष्टि
तद्गीताक्षिप्तहृदयः करीवाथ जनार्दनः । एकं वारस्थितं शय्यापालमेवं समादिशत् ॥ ८७२ ॥ शलाका
निद्रायमाणेष्वस्मासु गायतो गायनानमून् । विसृजेस्त्वं वृथाऽऽयासः स्वामिन्यनवधायके ॥ ८७३॥ पुरुषचरिते
तथेति प्रतिपेदे स शय्यापालः प्रभोर्वचः । शाह्मिणोऽपि क्षणानिद्रा मुंद्रयामास लोचने ॥ ८७४ ॥ महाकाव्ये
शय्यापालोऽपि तान् गीतलोभाद् विसृजति स न । विषयाक्षिप्तमनसा गॅलेद्धि खामिशासनम् ॥८७५॥ ॥३८॥
यामिन्याः पश्चिमे यामे प्रबुद्धोऽधोक्षजस्ततः। तथैव गायतोऽश्रौषीत तानक्षीणकलस्वरान् ॥ ८७६ ॥ किं विसृष्टास्त्वया नामी स्पष्टकष्टास्तपखिनः । इति पृष्टस्त्रिपृष्ठेन शय्यापालोऽब्रवीदिदम् ॥ ८७७ ॥ ॥ अमीषामेव गीतेन व्याक्षिप्तहृदयः प्रभो! । व्यस्राक्षं गायनान्नैतान् व्यस्मा स्वामिशासनम् ॥ ८७८॥ ततः प्रकुपितः सद्यः कृत्वा चाकारसंवरम् । प्रातरके इव प्राची सभामध्यास्त केशवः॥ ८७९ ॥ तत्र स्मृत्वा निशावृत्तं शय्यापालं प्रदर्य तम् । आरक्षपुरुषानेवं समादिक्षदधोक्षजः॥ ८८० ॥ अमुष्य प्रियगीतस्य कर्णयोः क्षिप्यतां ध्रुवम् । तप्तं पु च तानं च दोषः कर्णकृतो ह्ययम् ॥ ८८१॥ शय्यापालं तमेकान्ते तेऽपि नीत्वा तथा व्यधुः । दुर्लक्ष्यं शासनं ह्युग्रशासनानां महीभुजाम् ॥ ८८२॥ शय्यापालोऽपि पञ्चत्वं प्राप वेदनया तया । दुर्विपाकं वेदनीयकर्माऽबध्नाच्च शाभृित् ॥ ८८३ ॥ नित्यं विषयसंसक्तो राज्यमूर्छापरायणः । स्वदोर्बलावलेपेन टेणाय गणयञ्जगत् ।। ८८४॥
शय्यायाम् । २ वार:-परिपाटिः, 'वारो' इति भाषायाम् । ३ असावधाने। ५ मिमील, 'मींच्या' इति भाषायाम् । ४५ गलेत्-विस्मरेत् । ६ विष्णुः। ७ आकारगोपनम् । ८ सभायाम् उपविष्टः, “अधेः शी" [२.२.२०] इति द्वितीया । MI* °तां द्रुतम् सं०॥ ९ 'तृणाय' इत्यत्र "मन्यस्थानावादि०" [२.२.६५.] इति सूत्राच्चतुर्थी।
॥३८॥
For Private & Personal use only
N
Jain Education Inter
iwww.jainelibrary.org.