________________
श्रेयांसजिनस्य निर्वाणम् ।
आकेवलाद द्विमासोनवर्षलक्षकविंशतिम् । महीं विहरतो जज्ञे परिवारः प्रभोरयम् ॥८५७ ॥ मोक्षकालं विदित्वौं खं प्रभुः संमेतमेत्य च । समं मुनिसहस्रेणानशनं प्रत्यपद्यत ॥८५८॥ मासमेकं तथा स्थित्वा शैलेशीध्यानमास्थितः । नभाकृष्णतृतीयायां धनिष्ठास्थे निशाकरे ॥८५९ ॥ अनन्तदर्शनज्ञानवीर्यानन्दमयात्मकः । समं तैर्मुनिभिः प्राप भगवान् परमं पदम् ॥ ८६०॥
कौमारे स्वामिनो वर्षलक्षणामेकविंशतिः। द्विचत्वारिंशदब्दानां लक्षाण्यवनिपालने ॥ ८६१ ॥ प्रव्रज्यापालने वर्षलक्षाणामेकविंशतिः । इत्यायुश्चतुरशीतिवर्षलक्षाण्यजायत ॥ ८६२॥ पइविंशतिसहस्रायवर्षपदपष्टिलक्षकैः। अब्धिशतेन चोनाया अब्धिकोटेर्व्यतिक्रमे ॥ ८६३ ॥ श्रीमच्छीतलनाथस्य मोक्षकालादनन्तरम् । श्रेयांसवामिनो जज्ञे निर्वाणगमनोत्सवः॥८६४॥ युग्मम्॥ चक्रे निर्वाणकल्याणं संगीर्वाणैः पुरन्दरैः । महतामन्तकालोऽपि पर्वणे न पुनः शुंचे ॥ ८६५॥ द्वात्रिंशतान्तःपुरस्त्रीसहस्रैर्विलसन् सुखम् । त्रिपृष्ठोऽपि ततः स्वायुः कियदप्यत्यवाहयत् ॥ ८६६ ॥ स्वयम्प्रभायां जज्ञाते शाङ्गपाणेरुभौ सुतौ । ज्येष्ठः श्रीविजयो नाम कनिष्ठो विजयायः॥८६७॥ रतिसागरमग्नस्य त्रिपृष्ठस्यान्यदान्तिके । आजग्मुर्गायनाः केऽपि सौवर्यादतिकिन्नराः ॥ ८६८॥ गायन्तस्तेऽतिमधुररागवैविध्यवन्धुरम् । हृषीकेशस्य हृदयं जहुः सर्वकलानिधेः॥ ८६९ ॥ सदा त्रिपृष्ठः पार्श्वस्थांश्चके गीतगुणेन तान् । रज्यन्त्यन्येऽपि गीतेन किं पुनस्तद्विदग्रणी ॥८७०॥ __* त्वाऽथ प्रसं०॥ नमः-श्रावणो मासः। पिडत्रिंश सं० ॥ २ गीर्वाण:-देवः । ३ उत्सवाय । ४ शोकाय।। ५ गानोपजीविनः । ६ सुस्वरत्वेन किन्नरेभ्योऽपि अतिसुन्दरगानशीलाः । धुरं रा० सं० का०॥ ७ संगीतविदा श्रेष्ठः।
Jain Education Interior
For Private & Personal use only
owww.jainelibrary.org,