SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ | निर्जरास्वरूपगर्भा श्रेयांस| जिनदेशना। ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । कर्मणां फैलवत् पाको यद् उपायात् स्वतोऽपि च ॥८३०॥ सदोषमपि दीप्तेन सुवर्ण वह्निना यथा । तपोग्निना तप्यमानस्तथा जीवो विशुध्यति ॥ ८३१ ॥ अनशनमौनोदैर्य वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः ॥ ८३२ ॥ प्रायश्चित्तं वैयावृत्यं खाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं पोढेत्याभ्यन्तरं तपः॥ ८३३ ॥ दीप्यमाने तपोवती बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ८३४ ॥ यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैनवेर्जलापूरैः पूर्यते नैव सर्वथा ॥ ८३५॥ तथैवाश्रवरोधेन कर्मद्रव्यैर्नेवैर्नवैः । अयं न पूर्यते जीवः संवरेण समावृतः॥८३६ ॥ यथैव सरसस्तोयं संशुष्यति पुराचितम् । दिवाकरकरालांशुपातसंतापितं मुहुः ॥ ८३७॥ तथैव पूर्वसंबद्धं सर्व कर्म शरीरिणाम् । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ।। ८३८ ।। निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः। तेत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः॥८३९ ।। चिरार्जितानि भूयांसि प्रबलान्यपि तत्क्षणात । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः ॥ ८४०॥ यथैवोपचितो दोषः शोषमायाति लडनात । तथैव तपसा कर्म क्षीयते पूर्वसंचितम् ॥ ८४१ ॥ यथा वा मेघसंघाताः प्रचण्डपवनैहताः। इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ॥ ८४२॥ व्रतवताम्-व्रतयुक्तानां निर्जरा ज्ञानपूर्विका अन्येषां तु अज्ञानपूर्विका। २ यथा फलं स्वयं पक्कं भवति, उपायादपि पर्क [क्रियते, एवं कर्मणां विपाकोऽपि बोध्यः । ३ औनोदर्यम्-ऊनोदरताम्-बुभुक्षाऽपेक्षया स्वल्पं भोजनम् । व्रतयुक्तः । ५तत्रापिकामाभ्यन्तरे तपसि ध्यानस्य श्रेष्ठत्वम् इति भावः। ६ वर्धितः शरीरदोषः । त्रिषष्टि. ६५ Jain Education Intel TAM For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy