SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ SASSASSASARSAAROSESAX इन्द्रध्वजेन च पुरोगामिना परिशोभितः । स्वयं ध्वनदुन्दुभिना बन्दिनेवोक्तमङ्गलः ॥ ८००॥ भामण्डलेन भ्राजिष्णुः सूर्येणेवोदयाचलः । सुरासुरनरैः कोटिसंख्यातः परिवारितः ॥ ८०१॥ देवैः संचार्यमाणेषु क्रमेण च पुरः पुरः। नवसु स्वर्णपद्धेषु विन्यस्यन् पादपङ्कजे ॥८०२॥ अधिष्ठितः पुरोदेशं धर्मचक्रेण भास्वता । ततः समवसरणं पूर्वद्वाराऽविशद् विभुः॥ ८०३ ॥ तत्र स्वागतिकमिव रणत षट्चरणारवैः । त्रिः प्रदक्षिणयामास चैत्यवृक्षं जगद्गुरुः ॥८०४॥ वदन् 'नमस्तीर्थाय' इति छन्दकाम्भोजकर्णिकम् । सिंहासनमलञ्चके पूर्वाशाभिमुखः प्रभुः॥ ८०५॥ रत्नसिंहासनासीनान्यपरास्वपि दिवथ । स्वामिनः प्रतिबिम्बानि विचक्रुर्व्यन्तरामराः॥८०६ ॥ प्रविश्य पूर्वद्वारेण निपेदुः साधवः क्रमात् । वैमानिकस्त्रियः साध्व्यश्चो; एवावतस्थिरे ॥ ८०७ ॥ प्रविश्यापाच्यद्वारेण नत्वाऽर्हन्तं च नैऋते । अतिष्ठन् भवनपतिज्योतिष्कव्यन्तरस्त्रियः॥८०८ ॥ प्रविश्य पश्चिमद्वारार्हन्तं नत्वाऽवतस्थिरे । भवनाधिपतिज्योतिय॑न्तराश्च मरुद्दिशि ॥ ८०९ ॥ प्रविश्य चोत्तरद्वारा भगवन्तं प्रणम्य च । क्रमेण तस्थुरैशान्यां वैमानिकनरस्त्रियः॥ ८१०॥ इत्थं तृतीये वप्रेऽस्थाच्छ्रीमान् संघश्चतुर्विधः । तिर्यश्चो मध्यमे वप्रेऽधस्तने वाहनानि तु ॥ ८११॥ तदा च राजपुरुषास्त्रिपृष्ठायाधचक्रिणे । स्वामिनं समवसृतं संमदादाचचक्षिरे ॥ ८१२ ॥ सद्यः सिंहासनं हित्वा पादुके परिमुच्य च । स्वामिदिकसन्मुखं स्थित्वा ववन्दे खामिनं हरिः॥८१३ ॥ स्थित्वा सिंहासने रूप्यकोटीरर्धत्रयोदश । वाम्यागमनशंसिभ्यः प्रददावचलानुजः॥८१४ ॥ *ख्यानैः सं०॥ दक्षिणद्वारेण । २ वायच्यकोणे। हर्षात् । Jain Education Internal For Private & Personal use only jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy