________________
चतुर्थ पर्व
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
प्रथम:
%64646464%
सर्गः
श्रेयांस
॥३७८॥
चरितम् ।
वामौ च विभ्रती पाणी कुलिशाङ्कुशधारिणौ । पारिपार्धिक्यभूद् भर्तुस्तदा शासनदेवता ॥ ७८७॥ ताभ्याममुक्तसानिध्यो विहरन् परमेश्वरः । अन्येयुः पोतनपुरं पुरप्रवरमाययौ ॥ ७८८॥..... -तत्र च स्वामिसमवसरणायकयोजनाम् । मरुत्कुमारा ममृजुर्मेघाश्च सिषिचुः क्षितिम् ॥ ७८९ ॥ स्वर्णरत्नोपलैस्तां च बबन्धुर्व्यन्तरामराः । जानुदैनीः सुमनसः पञ्चवर्णाश्च चिक्षिपुः ॥ ७९०॥ तोरणानि प्रतिदिशं भ्रूभङ्गानिव तदिशाम् । ते चक्रुस्तद्भवो मध्ये मणिपीठं च पावनम् ॥ ७९१ ॥ तत्राधो राजतं वप्रं सस्वर्णकपिशीर्षकम् । शीर्षासमिव क्षोणेर्विदधुर्भवनाधिपाः ॥ ७९२॥ सरत्नकपिशीर्ष च तापनीयमथापरम् । खज्योतिषेव ज्योतिष्काःप्राकारं विदधुः सुराः॥ ७९३ ॥ माणिक्यकपिशीर्ष च दिव्यरत्नशिलामयम् । विमानपतयो वर्ग तार्तीयीकं विचक्रिरे ॥ ७९४ ॥ सतोरणा चतुर्धारी प्रतिवप्रमजायत । देवच्छन्द ऐशान्यां मध्यवप्रस्य मध्यतः ॥ ७९५॥ मध्यप्राकारगर्भोव्या विचक्रे व्यन्तरामरैः । षष्ठयुत्तरनवधनुःशतोच्चश्चैत्यपादपः ॥ ७९६॥.... तस्याधो मणिपीठोव्यां विदधुश्छन्दकं च ते । रत्नसिंहासनं साडिपीठं प्राच्यां तदन्तरे ॥ ७९७॥ तत्रान्यदपि यत् कृत्यं तचक्रुर्व्यन्तरामराः । भक्तिमन्तोऽप्रमादेनायुक्तेभ्योऽप्यतिशेरते ॥ ७९८ ॥ श्रेयांसोऽथ प्रभुयॊमस्थितैश्छत्रैस्विभिर्व्यभात् । वीज्यमानश्चामराभ्यां यक्षाभ्यां पार्श्वयोर्द्वयोः॥७९९॥
१ कुलिशम्-वज्रम् । * कलशाङ्कश-सं० का० ॥ तुः सदा-सं० ॥ २ शुद्धां चक्रुः । ३ जानुप्रमाणाः। ४ शीर्षशेखरकम् । ५ तपनीयम्-सुवर्णम् , तेन निर्मितम् । ६ स्वतेजसा । क ईशा-सं० ॥ स्याधिम सं०॥ "भिर्विभान् मु.॥
श्रेयांसजिनस्य समवसरणम्।
2COSTOSAS
SAMOCHOCHOHARASUSHOTOS
॥३७८॥
Jain Education inte
For Private & Personal use only
| www.jainelibrary.org.