SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ SARGARSAGARMACANCIENCE प्रत्योकः प्रकृतोद्वाहमिव मङ्गलगीतिभिः। पिण्डीभूतजीवलोकमिव संमर्दसंपदा ॥ ७७४ ॥ प्रविवेश द्विपारूढः संपन्नः प्रौढसंपदा । श्रीपतिः पोतनपुरं पुरं नवमिव श्रियः॥ ७७५ ॥ ॥ चतुर्भिः कलापकम् ॥ प्रजापतिज्वलनजव्यचलोऽन्येऽपि भूभुजः। त्रिपृष्ठस्यार्धचक्रित्वाभिषेकं विदधुस्ततः ॥ ७७६ ॥ इतश्च छबस्थतया द्वौ मासौ विहरन विभुः। श्रेयांसो भगवान् प्राप सहस्राम्रवणं वनम् ॥ ७७७॥ तत्राशोकतरोमूले स्वामिनः प्रतिमाजुषः। द्वितीयशुक्लध्यानान्ते वर्तमानस्य निश्चले ॥ ७७८ ॥ ज्ञान-टेष्ट्यावरणीये मोहनीयान्तरायके । प्रणेशु_तिकर्माणि तापे मदनपिण्डवत् ॥ ७७९ ॥ युग्मम् ॥ माघकृष्णपश्चदश्यां श्रवणस्थे निशाकरे । षष्ठेन तपसा भर्तुरुदपद्यत केवलम् ।। ७८०॥ देवैः समवसरणे रचिते तत्र देशनाम् । एकादशो जिनपतिर्विदधेऽतिशयान्वितः ॥ ७८१ ॥ तया देशनया भर्तुः प्रबुद्धा भूरिजन्तवः । विरतिं सर्वतः केपि जगृहुर्देशतोऽपरे ॥ ७८२ ॥ गोशुभाद्या गणभृतः षट्सप्ततिरथाभवन् । खामिनस्त्रिपदीं श्रुत्वा द्वादशाङ्गीमसूत्रयन् ॥ ७८३ ॥ तत्तीर्थभूरीश्वराख्यो यक्षरुयक्षो वलक्षरुक् । वृषयानो मातुलिङ्गगदिदक्षिणदोईयः ॥ ७८४ ॥ नकुलाक्षसूत्रयुक्तदक्षिणेतरवाहुकः । श्रेयांसवामिनो जज्ञे तदा शासनदेवता ॥ ७८५ ॥ तथैव मानवी देवी गौराङ्गी सिंहवाहना । वरदं मुद्गरिणं च दधती दक्षिणौ करौ ॥ ७८६ ॥ प्रतिओका-प्रतिगृहम् । २ संमदा-हर्षः। * 'दः प्ररूढ प्रौढसंमदः-सं० का। ज्ञानावरणीयम् , दर्शनावरणीयं च । | 'मदन' इति भाषायाम् 'मीण' । माघे कृ-सं०। ५ देशतः विरतिम्-श्रावकधर्मम् । ६ श्वेतकान्तिः। 1 °गदाद-सं०। श्रेयांसजिनस्य | केवलज्ञानम् Jain Education Ins ! For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy